इस्मन्त्रन्क्विषु च

6-4-97 इस् मन्त्रन्क्विषु च असिद्धवत् अत्र आभात् अचि उपधायाः ह्रस्वः छादेः घेः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

इस् मन् त्रन् क्वि इत्येतेषु परतश्छादेरुपधाया ह्रस्वो भवति। छदिः। छद्म। छत्त्रम्। धामच्छत्। उपच्छत्॥

Siddhanta Kaumudi

Up

एषु छादेर्ह्रस्वः स्यात् । तनुच्छत् । अनुनासिकस्य क्वि -<{SK2666}> इति दीर्घः । मो नो धातोः <{SK341}> । प्रतान् । प्रशान् । च्छ्वोः -<{SK2561}> इत्यूठ् । अक्षद्यूः । ज्वरत्वरः -<{SK2654}> इत्यूठ् । जूः । जूरौ । जूरः । तूः । स्रूः । ऊः । वृद्धिः । जनानवतीति जनौः । जनावौ । जनावः । मूः । मुवौ । मुवः । सुमूः । सुम्वौ । सुम्वः । राल्लोपः <{SK2655}> । मूर्छा, मूः । मुरौ । मुरः । धुर्वी, धूः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<इस्मन्त्रन्क्विषु च>> - इस्मन्त्रन् । इस्, मन्, त्रन्, क्वि एषां चतुर्णां द्वन्द्वः ।छादेर्घेद्व्युपसर्गेस्य॑त्यतश्छादेरिति, 'खचि ह्रस्वः' इत्यतो ह्रस्व इति चानुवर्तते । तदाह — एषु छादेरिति । अर्थादाकारस्येति गम्यते, अलोन्त्यपरिभाषामाश्रित्य इकारस्य ह्रस्वविदौ प्रयोजनाऽभावात् । एवं च 'ऊदुपधायाः' इत्यत उपधाया इति नानुवर्तनीयम्, ण्यन्तस्य छादेर्दकारोपधत्वात् ।इस्- छदिः । मन्- छद्म । त्रन् - छत्रम् । क्वौ उदाहरति — तनुच्छदिति । तनुं छादयतीति विग्रहः । अथ तनेः शमेश्च क्विपि विशेषमाह — अनुनासिकस्येति ।अक्षद्यू॑रित्यत्र आह — च्छ्वोरिति । योरेकस्मिन् ऊठिजूरिति रूपम् । एवं त्वरेः तूरिति रूपम् । रिउआवेः क्विपि इकारवकारयोरूठि रुआऊरिति रूपम् । अवधातोः क्विपि अकारवकारयोरूठि ऊरिति रूपम् । वृद्धिरिति । जनानवतीति विग्रहे, अवेः क्विपि, अकारवकारयोरूठि , जन ऊ इति स्थिते आद्गुणं बाधित्वा 'एत्येध्त्यूठ्सु' इति वृद्धिरौकारादेश इत्यर्थः । मूरिति । मवेः क्विपि, अकारवकारयोरूठ् । सुम्बो सुम्व इति । अनेकाच्त्वाद्गतिपूर्वत्वाच्च यणिति भावः । रादिति । मुर्छाधातोः क्विपि 'राल्लोपः' इति चकारस्य लोपे सुलोपेर्वो॑रिति दीर्घे सुलोपेर्वो॑रिति दीर्घे धूरिति रूपमिति भावः ।

Padamanjari

Up