खचि ह्रस्वः

6-4-94 खचि ह्रस्वः असिद्धवत् अत्र आभात् अचि उपधायाः णौ

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

खच्परे णौ परतो ह्रस्वो भवत्यङ्गस्योपधायाः। द्विषंतपः। परंतपः पुरंदरः॥

Siddhanta Kaumudi

Up

खच्परे णौ उपधाया ह्रस्वः स्यात् । द्विषन्तं परं वा तापयतीति द्विषन्तपः । परंतपः । घटघटीग्रहणाल्लिङ्गविशिष्टपरिभाषा अनित्या । तेनेह न । द्विषतीं तापयतीति द्विषतीतापः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<खचि ह्रस्वः>> - खचि ह्रस्वः । 'दोषो णौ' इत्यतो णाविति, 'उदुपधायाः' इत्यत 'उपधाया' इति चानुवर्तते । तदाह — खच्परे णाविति । खशि प्रकृते खचो विधिरिह ह्रस्वार्थोऽणिलोपार्थश्च । खशि तु तदुभयं न स्यात्, खशः शित्त्वेन सार्वधातुकतया णिलोपाऽसंभवात् । न च इहैव सूत्रे खज्विधीयतां, पूर्वसूत्रे खशेवाऽनुवर्ततामिति वाच्यम्, अन्यतोऽपि विधानार्थत्वात् । एवं चगमेः सुपी॑ति वार्तिकमेतल्ल्ब्धार्थकथनपरमेवेत्याहुः ।

Padamanjari

Up