इरयो रे

6-4-76 इरयोः रे असिद्धवत् अत्र आभात् बहुलं छन्दसि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

इर इत्येतस्य छन्दसि विषये बहुलं रे इत्ययमादेशो भवति। गभ॑ ᐀्ं प्रथ॒मं द॑ध्॒र आपः॒ (ऋ० १०.८२.५)। या॑श्च॒ परि॒द॑दृ॒श्रे (मै०सं० ४.४.१)। धाञो रेभावस्यासिद्धत्वादातो लोपः ६.४.६४ भवति। न च भवति — परमाया धियोऽग्निकर्माणि चक्रिरे। अत्र रेशब्दस्य सेटां धातूनामिटि कृते पुना रेभावः क्रियते, तदर्थं च इरयोरित्ययं द्विवचननिर्देशः॥

Siddhanta Kaumudi

Up

प्रथमं दध्र आपः (प्रथ॒मं द॑ध्र॒ आपः॑) । रेभावस्याभीयत्वेनासिद्धत्वादालोपः । अत्र रेशब्दस्येटि कृते पुनरपि रेभावस्तदर्थं च सूत्रे द्विवचनान्तं निर्दिष्टमिरयोरिति ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

दघ्र इति । ननु चात्र परत्वाद्रेभावे कृते अनजादित्वादाल्लोपो न प्राप्नोति अत आह - घञो रेभावस्यासिद्धत्वादिति । नन्वेवमपि रेभावे कृते तस्यैवेडागमः प्राप्नोति, न च रेभावस्य वैयर्थ्यम् कृसृभृप्रभृतिष्वनिट्सु चरितार्थत्वात् इत्यत आह - अत्रेति । कथं पुनर्लाक्षणिकस्य तस्य थैरेशब्दस्य रेभावो भवति कथं वा स्वप्रवृत्तिमपेक्ष्य तस्मिन्निडागमे कृते पुनः स्वयं प्रवर्तमानस्यात्माश्रयदोषो न भवति तत्राह - तदर्थे चेति । द्विवचननिर्देशाद् दोषद्वयं न भवतीत्यर्थः ॥