एर्लिङि

6-4-67 एः लिङि असिद्धवत् अत्र आभात् आर्धधातुके क्ङिति आतः घुमास्थागापाजहातिसां

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

घुमास्थागापाजहातिसामङ्गानां लिङि परत एकारादेशो भवति। देयात्। धेयात्। मेयात्। स्थेयात्। गेयात्। पेयात्। हेयात्। अवसेयात्। क्ङितीत्येव — दासीष्ट। धासीष्ट॥

Siddhanta Kaumudi

Up

घुसंज्ञानां मास्थादीनां च एत्वं स्यादार्धधातुके किति लिङि । धेयात् । धेयास्ताम् । धेयासुः ॥

Laghu Siddhanta Kaumudi

Up

घुसंज्ञकानां मास्थादीनां च एत्वं स्यादार्धधातुके किति लिङि। पेयात्। गातिस्थेति सिचो लुक्। अपात्। अपाताम्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<एर्लिङि>> - एर्लिङि ।ए॑रिति प्रथमान्तम् ।आर्धधातुके॑इत्यधिकृतम् ।घुमास्थागापाजहातिसा॑मित्यनुवर्तते । घु मा स्था गा पा जहाति सा एषां द्वन्द्वात् षष्ठीबहवचनम् । तदाह — घुसंज्ञानां मास्थादीनामिति । किति लिङिति ।दीङो यु॑डित्यतः कितीत्यनुवृत्तेरिति भावः । ङितीति नानुवर्तते, लिङार्धधातुकस्य ङित्त्वाऽसंभावात् ।

Padamanjari

Up