ईद्यति

6-4-65 ईत् यति असिद्धवत् अत्र आभात् आर्धधातुके क्ङिति आतः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ईकार आदेशो भवत्याकारान्तस्याङ्गस्य यति परतः। देयम्। धेयम्। हेयम्। स्तेयम्॥

Siddhanta Kaumudi

Up

यति परे आत ईत्स्यात् । गुणः । देयम् । ग्लेयम् ॥<!तकिशसिचतियतिजनिभ्यो यद्वाच्यः !> (वार्तिकम्) ॥ तक्यम् । शस्यम् । चत्यम् । यत्यम् । जन्यम् । जनेर्यद्विधिः स्वरार्थः । ण्यतापि रूपसिद्धेः । न च वृद्धिप्रसङ्गः । जनिवध्योश्च <{SK2512}> इति नेषेधात् ।<!हनो वा यद्वधश्च वक्तव्यः !> (वार्तिकम्) ॥ वध्यः । पक्षे वक्ष्यमाणो ण्यत् । घात्यः ॥

Laghu Siddhanta Kaumudi

Up

यति परे आत ईत्स्यात्। देयम्। ग्लेयम्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<ईद्यति>> - इद्यति । आत इति ।आतो लोप इटि चे॑त्यतस्तदनुवृत्तेरिति भावः । गुण इति । दाधातोःअचोय॑दिति यति अत ईत्त्वेसार्वधातुकार्धधातुकयो॑रिति गुण इति भावः । ग्लेयमिति । 'ग्लै हर्षक्षये' इति धातोर्यति 'आदेचः' इत्यात्त्वे ईत्त्वे गुण इति भावः । तकिशसीति । तकि,शसि , चति , यति, जनी प्रादुर्भावे॑ इति धातवः । अत्र सर्वत्र अकर्मकेभ्यो भावे प्रत्ययः । सकर्मकेभ्यस्तु कर्मण्यपीति विवेकः । ननुअर्हे कृत्यतृचश्चे॑त्यर्हेऽपि जनेण्र्यताऽपि जन्यमिति रूपसिद्धेर्जनिग्रहणं व्यर्थमित्यत आह — स्वरार्थ इति । 'यतोऽनावः' इत्याद्युदात्तार्थ इत्यर्थः । ननु ण्यति उपधावृद्धिः स्यादतस्तदभावार्थमिह जनेर्यद्विधिस्त्वित्याशङ्क्य निराकरोति — न च वृद्धिप्रसङ्ग इति । कुत इत्यत आह — जनिवध्योरिति । हनो वेति । हनधातोर्यद्वा स्यात्,प्रकृतेर्वधादेशश्चेत्यर्थः । पक्षे इति । यदभावपक्षे इत्यर्थः । घात्य इति । ण्यतिहनस्तोऽचिण्णलो॑रिति नस्य तः । कुत्वम् । उपधावृद्धिः । वधादेशस्तु यत्संनियोगशिष्टत्वान्नेति भावः ।

Padamanjari

Up

दीर्घविधानमुतरार्थम् - अध्यगीष्ट । इह तु गुणेन भवितव्यमिति ह्रस्व एव विधेयः ॥