स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च

6-4-62 स्यसिच्सीयुट्तासिषुभावकर्मणोः उपदेशे अच्झन्ग्रहदृशां वा चिण्वत् इट् च असिद्धवत् अत्र आभात् आर्धधातुके

Kashika

Up

index: 6.4.62 sutra: स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च


स्व सिच् सीयुट् तासि इत्येतेषु भावकर्मविषयेषु परत उपदेशे अजन्तानामङ्गानां हन् ग्रः दृशित्येतेषां च चिण्वत् कार्यं भवति वा। यदा चिण्वत् तदा इडागमो भवति। कस्य? स्यसिच्सीयुट्तासीनाम् एव इति वेदितव्यम्। ते हि प्रकृताः। अङ्गस्य तु लक्ष्यविरोधात् न क्रियते। कानि पुनरस्य योगस्य प्रयोजनानि? चिण्वद्वृद्धिर्युक् च हन्तेश्च घत्वं दीर्घश्च उक्तो यो मितां वा चिणीति। इट् च असिद्धस् तेन मे लुप्यते णिर्नित्यश्च अयं वल्निमित्तो विघाती। अजन्तानां तावत् चायिष्यते, चेष्यते। अचायिष्यत, अचेष्यत। दायिष्यते, दास्यते। अदायिष्यत, अदास्यत। शामिष्यते, शमिश्यते, शमयिस्यते। अशामिष्यत, अशमिष्यत अशमयिष्यत। हन् घानिष्यते, हनिष्यते। अघानिष्यत, अहनिष्यत। ग्रः ग्राहिष्यते, ग्रहीष्यते। अग्राहिष्यत, अग्रहीष्यत। ग्रहोऽलिटि दीर्घः 7.2.37 इति प्रकृतस्य इटो दीर्घत्वम्। दृश् दर्शिष्यते, द्रक्ष्यते। अदर्शिष्यत, अद्रक्ष्यत। सिचि अजन्तानामचायिषाताम्, अचेषाताम्। अदायिषाताम्, अदिषाताम्। अशामिषातम्, अशमिषातम्, अशमयिषाताम्। हन् अघानिषाताम्, अवधिषाताम्, अहसाताम्। ग्रः अग्राहिषाताम्, अग्रहीषाताम्। दृश् अदर्शिषाताम्, अदृक्षाताम्। सीयुटि अजन्तानाम् चायिषीष्ट, चेषीष्ट। दायिषीष्ट, दासीष्ट। शामिषीष्ट, शमिषीष्ट, शमयिषीष्ट। हन् घानिषीष्ट, वधिषीष्ट। ग्रः ग्राहिषीष्ट, ग्रहीषीष्ट। दृश् दर्शिषीष्ट, दृक्षीष्ट। तासावजन्तानाम् चायिता, चेता। दायिता, दाता। शामिता, शमिता, शमयित। हन् घानिता, हन्ता। ग्रः ग्राहिता, ग्रहीता। दृश् दर्शिता, द्रष्टा। स्यसिच्सीयुट्तासिषु इति किम्? चेतव्यम्। दातव्यम्। भावकर्मणोः इति किम्? चेष्यति। दास्यति। उपदेशे इति किम्? कारिष्यते इति गुणे कृते रपरत्वे च न प्राप्नोति, उपदेशग्रहणाद् भवति। अज्झनग्रहदृशाम् इति किम्? पठिष्यते। अङ्गाधिकारविहितं कार्यम् इह अतिदिश्यते, तेन हनिणिङामादेशा न भवन्ति। हनिष्यते, घानिष्यते। एष्यते, आयिष्यते। अध्येष्यते, अध्यायिष्यते। हनो वध लिङि 2.4.42, लुङि च 2.4.43, इणो गा लुङि 2.4.45, विभाषा लुङ्लृङोः 2.4.50 इत्येते विधयो न भवन्ति।

Siddhanta Kaumudi

Up

index: 6.4.62 sutra: स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च


उपदेशे योऽच् तदन्तानां हनादीनां च चिणीवाङ्गकार्यं वा स्यात्स्यादिषु परेषु भावकर्मणोर्गम्यमानयोः स्यादीनामिडागमश्च । अयमिट् चिण्वद्भावसन्नियोगशिष्टत्वात्तदभावे न । इहार्धधातुक इत्यधिकृतं सीयुटो विशेषणं नेतरेषामव्यभिचारात् । चिण्वद्भावाद्वृद्धिः । भाविता । भविता । भाविष्यते । भविष्यते । भूयताम् । अभूयत । भूयेत । भाविषीष्ट । भविषीष्ट ।

Laghu Siddhanta Kaumudi

Up

index: 6.4.62 sutra: स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च


उपदेशे योऽच् तदन्तानां हनादीनां च चिणीवाङ्गकार्यं वा स्यात्स्यादिषु भावकर्मणोर्गम्यमानयोः स्यादीनामिडागमश्च। चिण्वद्भावपक्षेऽयमिट्। चिण्वद्भावाद् वृद्धिः। भाविता, भविता। भाविष्यते, भविष्यते। भूयताम्। अभूयत। भाविषीष्ट, भविषीष्ट॥

Balamanorama

Up

index: 6.4.62 sutra: स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च


स्यसिच्सीयुट्तासिषु भावकर्मणोर्- उपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च - स्यसिच् । अच् हन ग्रह दृश् एषां द्वन्द्वात्षष्ठी । उपदेश इत्च एव विशेषणम्, नेतरेषाम्, अव्यभिचारात् । तदाह - उपदेशे योऽजिति । 'अ' जित्यस्यं उपदेशान्वयित्वेऽपि सौत्रः समासः ।अ॑जिति लुप्तषष्ठीकं वा ।चिण्व॑दिति सप्तम्यन्ताद्वनतिः,स्यसिच्सीयुट्तासिष्वि॑त्युपमेयतः सप्तमीदर्शनात् । तदाह — चिणीवेति । अङ्गकार्यमिति । अङ्गस्येत्यधिकृतत्वादिति भावः ।भावकर्मवाचिषु स्यादिष्वि॑ ति नार्थः,सीयुटो लिङागमतया भावकर्मवाचित्वेऽपि स्यसिच्तासीनां भावकर्मवाचित्वाऽभावात् । नापिभावकर्मवाचिनि प्रत्यये परे ये स्यादयस्तेष्वि॑त्यर्थः, स्यसिच्तासीनां भावकर्मवाचिप्रत्ययपरत्वसंभवेऽपि सीयुटस्तदसंभवात् । सीयुडागमविशिष्टस्यैव लिङो भावकर्मवाचितया केवलसीयुटो न भावकर्मवाचिप्रत्ययपरकत्वमस्ति । अतो विषयसप्तमीति मत्वाऽऽह — स्यादीनामिडागमश्चेति । अत्र अज्झनग्रहदृशां, स्यादीनां च न यथासङ्ख्यं, व्याख्यानात् ।स्यादिषु परेषु अङ्गस्य इ॑ डिति नार्थः,आर्धधातुकस्येड्वलादे॑ रित्यत्र 'आर्धधातुके' इति योगं विभज्ययावानिट् स आर्धधातुकस्यैवे॑ति भाष्ये उक्तत्वात् । चिणि यदङ्गाधिकारविहितं कार्यं तस्यैवात्रातिदेशो, न तु चिणि दृष्टमात्रस्य । तेन 'घानिष्यते' इत्यत्रहनो वध लिङि, लुङि चे॑ति चिणि दृष्टो वधादेशश्चिण्वदिति नातिदिश्यते, तस्य द्वैतीयीकत्वेन अङ्गाधिकारविहितत्वाऽभावात् । तथा आयिष्यते इत्यत्र इणो गादेशो न । 'अध्यायिष्यते' इत्यत्र इङो गाङादेशो न , द्वैतीयीकत्वात् । चिण्वत्त्वाऽभावे अयमिण्नेत्याह — अयमिडिति । सेट्कस्य वलादित्वलक्षण इट् तु स्यादेवेति भावः । ननु भूयेतेति विधिलिङि चिम्वत्वम् इट् च स्यातामित्यत आह — इहार्धधातुके इति । नेतरेषामिति । स्यसिच्तासीनां न विशेषणमित्यर्थः । अव्यभिचारादिति । स्यसिच्तासीनां सर्वत्राऽऽर्धधातुकत्वनियमादिति भावः । अत्र वार्तिकम् — चिण्वद्वृद्धिर्युक्च हन्तेश्च घ्तवं दीर्घश्चोक्तो यो मितां वा चिणीति । इट्वाऽसिद्धस्तेन मे लुप्यते णिर्नित्यश्चायं वल्निमित्तो विघाती॥॑ इति । स्यसिच्सीयुडिति सूत्रस्य वृद्ध्यादि प्रयोजनमित्यर्थः । तत्र वृदिंध दर्शयति — चिण्वद्भावाद्वृद्धिरिति । लुटि भू ता इति स्थिते चिण्वत्त्वात्अचोऽञ्णिती॑ति वृद्धिरित्यर्थः । इडागमश्चेत्यपि बोध्यम् । तत्फलं तु वक्ष्यते । तथा दाधातोर्लुटि 'आतो युक् चिण्कृतो' रिति युक् । तथा लृटि 'घानिष्यते' इत्यत्रहोहन्तेर्ञ्णिन्नेषु॑ इति घत्वम् । शमेर्हेतुमण्ण्य्नताल्लुटि — शामिता शमितेत्यत्रचिण्णमुलो॑रिति वा दीर्घः । तथा अनेनैवाऽत्र इटि कृते तस्य आभीयत्वेनाऽसिद्धत्वादनिटीति निषेधाऽभावाण्णिलोपः । तथा 'भाविष्यते' इत्यत्र भू-स्य इति स्थिते परमपि वलादिलक्षणं इटं बाधित्वा नित्यत्वादनेन इट्, वल्निमित्ते इटि कृतेऽकृते च चिण्वदिटः प्रवृत्त्या कृताऽकृतप्रसङ्गित्वात् । वलादिलक्षणस्त्विण्न नित्यः, चिण्वदिटि कृते वलादित्वस्य विहतत्वेन वलादिलक्षमस्य इटोऽप्रवृत्तेः । नित्यश्चायमित्यस्यचिण्वदि॑डिति शेषः ।वल्निमित्त इत्यनन्तरम्इडनित्य इत शेषः । अनित्यत्वे हेतुः — विघातीति । चिण्वदिटो वलादिनिमित्तविघातकत्वादित्यर्थः । एवं च सेट्कत्वेऽप्यनेनैव इट् । एतदभावपक्षे तु सेट्कत्वे वलादिलक्षण इडिति बोध्यम् । तदाह — भवितेति । चिण्वदिडभावपक्षे वलादिलक्षण इडिति भावः ।

Padamanjari

Up

index: 6.4.62 sutra: स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च


चिणीव चिण्वत्, तत्र तस्येव इति सप्तमीसमर्थाद्वतिः, स्यसिच्सीयुट्तासिषु इति प्रतियोगिनि सप्तमीनिर्द्देशात्, यथा - मथुरावत्पाटलिपुत्रे प्रासाद इति । भावकर्मविषयेष्विति । अनेन भावकर्मणोः इति वषयसप्तमीति दर्शयति । भावकर्मणोर्ये स्यादयो वर्तन्ते तेष्वति तु विज्ञायमाने सीयुडेको विशेषितः स्यात्, स्यादयो न विशेषिताः स्युः भावकर्मणोर्लादेशवाच्यत्वात्सीयुटश्च विशेषितः स्यात्, स्यादयो न विशेषिताझ स्युः भावकर्मणोर्लादेशवाच्यत्वात्सीयुटश्च तद्भक्तत्वात् । अथ यदाबावकर्माभिधायी प्रत्ययो भावकर्मशब्दाभ्यामभिधीयते, तदायमर्थः स्यात् - भावकर्मवाचिनि प्रत्यये परतो ये स्यादय इति । तदा स्यादयो विशेषिताः, सीयुडविशेषितः, न हि तद्भक्तस्य तेन सह पौर्वापर्यं सम्भवति । तस्मात्सर्वानुग्रहाय विषयसप्तम्येव युक्ता । यदा चिण्वतदेचडागमो भवतीति । चकारस्य सन्नियोगार्थत्वात् । कस्येति । षष्ठीनिद्दिष्टस्यागमो भवति, स्यादयश्च सप्तमीनिर्द्दिष्टाः, अज्झनग्रहदृशाम् इति षष्ठीनिर्द्दिष्टम्, अङ्गस्य इति च वर्तते, अतोऽजन्तादीनामङ्गानामेवागामित्वं युक्तमिति विपर्ययं मन्यमानस्य प्रश्नः । स्यसिच्सीयुट्तासीनामेवति । कथम् इत्याह ते हि प्रकृता इति । सन्निहिता इत्यर्थः । नन्वङ्गमपि प्रकृतं योग्यविभक्तिकं च तत्राह - अङ्गस्य त्विति । लक्ष्यविरोधादिति । यद्वा - सप्तमे योगविबागः क्रियते, आर्धधातुकस्येट्, परिभाषेयम्, यो यावान्कश्चिदिडागमः स सर्व आर्धधातुकस्यैव द्रष्टव्यः, तेनायमपीडागमः स्यादीनामेव भवति, नाङ्गस्य । कानि पुनरिति । चिणि यदेवाहत्य विहितं तदेवातिदिश्यते, आहोस्वित् चिणि दृष्टमात्रमिति प्रश्नः । तत्र द्वितीयः पक्ष आश्रीयत इति श्लोकेन दर्शयति - चिण्वद्वद्धिरिति । यथा चिणि वृद्धिः तथा स्यादिष्वपीष्यते - घानिष्यते । एतदेकं प्रयोजनम्, एवमुतरत्रापि । प्रत्येकं सम्बन्धेन यथायोगमतिदेशो योज्यः। दायिष्यत इति, आतो युक् चिण् कृतोः इति युक्, एतच्चिण्याहत्य विहितम् । यच्च हो हन्तेर्ञ्णिन्नेषु इति कुत्वमघानीत्यत्र दृष्टम्, तदपि दीर्घविकल्पविधानं तदपि प्रयोजनम् । एतदपि चिण्याहत्य विहितम् - शमिष्यते,शामिष्यत इति शमेर्णिचि मितां ह्रस्वं लृटि स्ये चिण्वद्भावेन दीर्घविकल्पः, तणेरनिटि इति णिलोपः । नन्वनिटीत्युच्यते, सेट् चायमत आह - इट् चासिद्ध इति । आ भाच्छास्त्रीये णिलोपे कर्तव्ये आ भाच्छास्त्रीयश्चिण्वदिडसिद्धः, तेनानिडादित्वात्सिद्धो णिलोप इत्यर्थः । मे इति । सूत्रकारायमाण्सय् वचनम् । ननु चास्य चिण्वदिटोऽवकाशः येऽनिटः, येषु ऋद्धनोः स्ये इत्यादि प्रतिपदविधानं नास्ति आर्द्धधातुकस्येत्यस्यावकाशः सेह् योऽस्य विषयो न बवति यस्तु सेडस्य च सूत्रस्य विषयः, तत्र परत्वात् आर्धधातुकस्येड्वलादेः इत्ययमेव प्राप्नोति, तत्कथमसिद्धत्वमत आह - नित्यश्चायमिति । अयं चिण्वदिण्णिनत्यः, कृतेऽपि वलादिलक्षण इट् प्राप्नोति, अकृतेऽपि, न ह्ययं वलादित्वमबेक्षते । अस्मिंस्तु कृते वलादिलक्षण इण्न प्राप्नोति, तस्माद् वल्निमित इडनित्यः । विधातः - निमिताभावादप्रवृत्तिः, सोऽस्यास्तीति वधाती । तदेवं नित्यत्वात्सेड्भ्योऽप्यनेनैवैड् भवति, अयं चासिद्धैति न भवति णिलोपाभावदोषः । अवश्यं चानेनैव सेड्भ्योऽपीडेष्टव्यः अन्यथा एतदिट्सन्नियुक्तश्चिण्वद्भावोऽपि न स्यात् । न च शब्दान्तरप्राप्तेरस्याप्यनित्यत्वमाकृतिपक्षे शब्दान्तरत्वाभावात् । प्रकृतस्येटो दीर्घत्वमिति । वलादिलक्षणस्य प्रकृतत्वात् । गुणे कृत इति । परत्वान्नित्यत्वाच्च । उपदेशग्रहणाद् भवतीति । यद्यपि करोतिरुतरकालमनजन्तः, उपदेशे त्वजन्त एव । यदि चिणि दृष्टमात्रस्यातिदेशः, हनिणिङदेशा अपि प्राप्नुवन्ति, तेषामपि तत्र दृष्टत्वात् अत आह - अङ्गाध्कारविहितमिति । अङ्गस्येति प्रकृत्य यद्धिहितं चिणि दृष्ट्ंअ तदेवातिदिश्यते, सन्निहतत्वात् । न च हनिणिङमादेशा एवंविधा इति तेषामनतिदेशः । अत्र वातिकम् - वधाभावात्सीयुटि चिण्वद्भावो विप्रतिषेधेन इति । वधभावस्यावकाशः - वध्यात्, वध्यास्ताम्, वध्यासुः, चिण्वद्भावे हन्ग्रहणस्यावकाशः - धानिष्यते, अधानिष्यत, अधानिषाताम्, अघानिषत, घानिषीष्टेत्यत्रोभयप्रसङ्गे चिण्वद्भावो भवति विप्रतिषेधेन । अथेदानीं चिण्वद्भावे पुनः प्रसङ्गविज्ञानाद् वधादेशः कस्मान्न भवति सकृद्गतौ विप्रतिषेधे यद्वाधितं तद्वाधितं तद्वाधितमेवेति । ननु द्वितीयाध्याये, तत्र आर्धधातुके इति वष्यसप्तमी, ततः किमन्तरङ्गो वधभावः नैतदस्ति लिङीति विशेषणिर्द्देशात्परसाप्तमी । यत्र तु विशेषणिर्देशाभावः - अस्तेर्भूः इत्यादौ, तत्रैव विषयसप्तमी भव्यादिसिद्धये ॥