6-4-61 वा आक्रोशदैन्ययोः असिद्धवत् अत्र आभात् आर्धधातुके दीर्घः क्षियः निष्ठायाम् अण्यदर्थे
आक्रोशे गम्यमाने दैन्ये च क्षियो निष्ठायामण्यदर्थे वा दीर्घो भवति। क्षितायुरेधि, क्षीणायुरेधि। दैन्ये — क्षितकः, क्षीणकः। क्षितोऽयं तपस्वी, क्षीणोऽयं तपस्वी॥
क्षियो निष्ठायां दीर्घो वा स्यादाक्रोशे दैन्ये च । क्षीणायुर्भव । क्षितायुर्वा । क्षीणोऽयं तपस्वी । क्षितो वा ॥
<<वाऽऽक्रोशदैन्ययोः>> - वाऽऽक्रोशदैन्ययो- । अण्यदर्थ इत्यनुवर्तते ।ण्यदर्थो भावकर्मणी॑इत्युक्तम् । आक्रोशे उदाहरति — क्षीणायुर्भवेति ।गत्यर्थाकर्मके॑ति कर्तरि क्तः । दैन्ये उदाहरति — क्षीणोऽयं तपस्वीति । कृश इत्यर्थः ।
क्षितायुरिति । पूर्ववत्कर्तरि क्तः । क्षीणक इति । अनुकम्पायाम् इति कन् । प्राप्तविभाषेयम् । अण्यदर्थ इत्येव - क्षितं सर्वमस्य, क्षितमस्य तपस्विनः ॥