विभाषापः

6-4-57 विभाषा आपः असिद्धवत् अत्र आभात् आर्धधातुके णेः अय ल्यपि

Kashika

Up

index: 6.4.57 sutra: विभाषापः


आप उत्तरस्य णेर्ल्यपि परतो विभाषा अयादेशो भवति। प्रापय्य गतः, प्राप्य गतः। इङादेशस्य लाक्षणिकत्वान् न भवति, अध्याप्य गतः।

Siddhanta Kaumudi

Up

index: 6.4.57 sutra: विभाषापः


आप्नोतेर्णेरयादेशो वा स्यात् ल्यपि । प्रापय्य । प्राप्य ॥

Padamanjari

Up

index: 6.4.57 sutra: विभाषापः


आप्लृ लम्भने चुरादिः, आप्लृ व्याप्तौ स्वादिः - द्वयोरपि ग्रहणम् । इह इङ् अध्ययने, णिच्, क्रीङ्जीनां णौ इत्यात्वम्, अतिह्री इत्यादिना पुक, अध्याप्य गत इत्यत्रापि प्राप्नोति, आप्रुपस्य भावात्, तस्मात् सानुबन्धको निर्द्दश्यः । आपुलिति पठितव्यम्, आप्लृशब्दान्ङसः, ऋकारलृकारयोः सवर्णत्वात् अत उत् इत्युत्वमुरण्रपरः एइत्यत्र रप्रत्याहारग्रहणाल्लपरत्वम्, सकारस्य संयोगान्तलोपः, ततहि तथा पठितव्यम् नेत्याह -ङदेशस्येति ॥