6-4-58 युप्लुवोः दीर्घः छन्दसि असिद्धवत् अत्र आभात् आर्धधातुके ल्यपि
यु प्लु इत्येतयोर्ल्यपि परतश्छन्दसि विषये दीर्घो भवति। दान्त्य॑नुपू॒र्वं वि॒यूय॑ (ऋ० १०.१३.१.२)। यत्रापो दक्षिणा परिप्लूय (काठ० सं० २५.३) छन्दसीति किम्? संयुत्य। आप्लुत्य॥
ल्यपीत्यनुवर्तते । वियूय । विप्लूय । आडजादीनाम् <{SK2254}> ॥