अयामन्ताल्वाय्येत्न्विष्णुषु

6-4-55 अय आमन्तआलुआय्यित्न्वष्णुषु असिद्धवत् अत्र आभात् नलोपः आर्धधातुके णेः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

आम् अन्त आलु आय्य इत्नु इष्णु इत्येतेषु परतो णेरयादेशो भवति। कारयांचकार। हारयांचकार। अन्त — गण्डयन्तः। मण्डयन्तः। आलु — स्पृहयालुः। गृहयालुः। आय्य — स्पृ॒ह॒याय्यः॑ (ऋ० ६.१५.१२)। गृहयाय्यः। इत्नु — स्तनयित्नुः। इष्णु — पोषयिष्णवः। पारयिष्णवः। नेति वक्त व्येऽयादेशवचनमुत्तरार्थम्॥

Siddhanta Kaumudi

Up

आमन्त आलु आय्य इत्रु इष्णु एषु णेरयादेशः स्यात् । वक्ष्यमाणलोपापवादः । कामयांचक्रे । आयादय आर्धाधातुके वा <{SK2305}> । चक्रमे । कामयिता । कमिता । कामयिष्यते । कमिष्यते ॥

Laghu Siddhanta Kaumudi

Up

आम् अन्त आलु आय्य इत्नु इष्णु एषु णेरयादेशः स्यात्। कामयाञ्चक्रे। आयादय इति णिङ् वा। चकमे। चकमाते। चकमिरे। चकमिषे। चकमाथे। चकमिध्वे। चकमे। चकमिवहे। चकमिमहे। कामयिता। कामयितासे। कमिता। कामयिष्यते, कमिष्यते। कामयताम्। अकामयत। कामयेत। कामयिषीष्ट॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अयामन्ताल्वाय्येत्न्विष्णुषु>> - अयामन्ता । अयति छेदः ।णेरनिटी॑त्यतो णेरित्यनुवर्तते । तदाह — णेरयादेशः स्यादिति । तथा च कामयामित्यमन्तं स्थितम् । ततःकृञ्चानुप्रयुज्यते॑ इत्यनुप्रयोगाल्लिडिति मत्वाह — कामयांचक्र इति । णिङ आयादिष्वन्तर्भावाल्लिडादावाद्धधातुके तद्विकल्पमुक्तं स्मारयति - आयादय इति । चकम इति । सेट्कोऽयम् । चकमिषे । चकमिध्वे ।चकमिवहे । चकमिमहे । कामयियेति । लुटि णिङपक्षे तासि इटि वृद्धौ गुणेऽयादेशे रूपम् । कामयताम् । अकामय.कामयेत । कामयिषीष्ट — कमिषीष्ट ।

Padamanjari

Up

गण्डयन्त इति । गडि सेचने घटादिः, मडि भूषायाम् - आभ्यामौणादिको झच्, झोऽन्तः । स्पृहयालुरिति । स्पृहिगृहि इत्यादिना आलुच् । स्पृहयाय्य इति । भृदक्षिस्पृहिभ्य आय्यः । स्तनयित्नुरिति । औणादिक इत्नुच् । पारयिष्णव इति । णेश्च्छन्दसि इति इष्णुच् ॥ नेति वक्तव्ये इति । णिलोपे हि प्रतिषिद्धे गुणे सत्ययादेशः सिद्धः, मात्रालाघवं च भवति । उतरार्थमिति । ल्यपि लघुपूर्वस्य इति षष्ठ।ल्न्तमध्यापिताः, अन्ये पञ्चम्यन्तम् तत्राद्यपक्षे प्रशमय्येत्यादौ व्यञ्जनान्ते न स्यात्, न ह्यत्र णिर्लघुपूर्वः, किं तर्हि व्यञ्जनपूर्वः । न चाव्यवहिते । क्व तर्हि स्यात् प्रगणय्य, प्रस्तनय्येत्यादौ यद्यप्यत्राल्लोपे कृते णिर्लघुपूर्वो न भवति, व्याश्रयत्वादल्लोपस्यासिद्धिरपि नास्ति, तथापि भूतपूर्वलघुपूर्वतामाश्रित्यात्रैव स्यात् । तथा प्रचिकीर्प्येत्यादावपि प्रसङ्गः, सम्प्रति गुरुपूर्वत्वेऽपि भूतपूर्वगत्या । तस्माद् द्वितीयं पक्षमाश्रित्य व्याचष्टे - लघुपूर्वाद्वर्णादिति । नन्वत्रापि पक्षे प्रशमय्येत्यादौ ह्रस्वादीनामसिद्धत्वादयादेशाप्रसङ्गः, क्व तर्हि स्यात् मृदमाचष्ट इति णिचि प्रकृत्यैकाच् इति प्रकृतिभावाट्टिलोपाभावे प्रमृदय्य गत इत्यादौ स्यादत आह - ह्रस्वयलोपाल्लोपानामिति ॥