6-4-53 जनिता मन्त्रे असिद्धवत् अत्र आभात् नलोपः आर्धधातुके लोपः णेः
जनितेति मन्त्रविषय इडादौ णिलोपो निपात्यते। यो नः पिता जनिता (ऋ० १०.८२.३)। मन्त्र इति किम् ? जनयिता॥
इडादौ तृचि णिलोपो निपात्यते । यो नः पिता जनिता (यो नः॑ पि॒ता ज॑नि॒ता) ॥