6-4-45 सनः क्तिचि लोपः च अस्य अन्यतरस्याम् असिद्धवत् अत्र आभात् नलोपः आत्
सनोतेरङ्गस्य क्ति चि प्रत्यये परत आकार आदेशो भवति, लोपश्चास्यान्यतरस्याम्। सातिः, सन्तिः, सतिः। अन्यतरस्यांग्रहणं विस्पष्टार्थम्। येसंबद्धं हि विभाषाग्रहणमिह निवृत्तमित्याशङ्क्येत॥
सनोतेः क्तिचि आत्वं वा स्याल्लोपश्च वा । सनुतात् । सातिः । सतिः । सन्तिः । देवा एनं देयासुर्देवदत्तः ॥
अस्यग्रहणमनन्तरस्य क्तिचो मा भूद्, व्यवहितस्यापि धातोरेव यथा स्यात् । क्रियमाणे हि तस्मिन्कायित्वेन प्राधान्यव्द्यवहितस्यापि धातोरेव परामर्शो भवति । अन्यतरस्यांग्रहणमनर्थकम्, विभाषा इति प्रकृतत्वाद् अत आह - अन्यतरस्यांग्रहणमिति । ननु नैतद्विस्पष्टनीयं प्रकृतमनुवर्तत इति तदाह ये संबद्धं हीति ॥