6-4-44 तनोतेः यकि असिद्धवत् अत्र आभात् नलोपः आत् विभाषा
तनोतेर्यकि परतो विभाषा आकार आदेशो भवति। तायते, तन्यते। यकीति किम्? तन्तन्यते॥
आकारोऽन्तादेशो वा स्यात् । तायते । तन्यते । ये विभाषा <{SK2391}> । जायते । जन्यते ॥
आकारोऽन्तादेशो वा स्यात्। तायते, तन्यते॥
<<तनोतेर्यकि>> - तनोतेर्यकि ।विड्वनोरित्यत आदिति,ये विभाषे॑त्यतो विभाषेति चानुवर्तते । तदाह — आकारोऽन्तादेशो वा स्यादिति । शेषपूरणमिदम् । तायते तन्यते इति । कर्मणि लकारः ।