ये विभाषा

6-4-43 ये विभाषा असिद्धवत् अत्र आभात् नलोपः आत् खनां

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

यकारादौ क्ङिति प्रत्यये परतो जनसनखनामाकार आदेशो भवति विभाषा। जायते, जन्यते। जाजायते, जञ्जन्यते। सायते, सन्यते। सासायते, संसन्यते। खायते, खन्यते। चाखायते, चङ्खन्यते। जनेः श्यनि <<ज्ञाजनोर्जा>> ७.३.७९ इति नित्यं जादेशो भवति॥

Siddhanta Kaumudi

Up

जनसनखनामात्वं वा स्याद्यादौ क्ङिति । सायात् । सन्यात् ।{$ {!465 अम!} गत्यादिषु कनी दीप्तिकान्तीत्यत्र गतेः परयोः शब्दसंभक्त्योरादिशब्देन संग्रहः$} । अमति । आम ।{$ {!466 द्रम!} {!467 हम्म!} {!468 मीमृ!} गतौ$} । द्रमति । दद्राम । ह्म्यन्त -<{SK2288}> इति न वृद्धिः । अद्रमीत् । हम्मति । जहम्म । मीमति । मिमीत । मिमीम । अयं शब्दे च ।{$ {!469 चमु!} {!470 छमु!} {!471 जमु!} {!472 झमु!} अदने$} ॥

Laghu Siddhanta Kaumudi

Up

जनसनखनामात्वं वा यादौ क्ङिति। सायात्, सन्यात्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<ये विभाषा>> - आशीर्लिङि विशेषमाह — ये विभाषा ।जनसनखनां सञ्झलो॑रित्यतो जनसनखनाभित्यनुवर्तते । अनुदात्तोपदेशेत्यतः क्ङितीति । 'ये' इति तद्विशेषणम् । अकार उच्चारणार्थः । तदादिविदिः ।विड्वनोरनुनासिकस्या॑दित्यत आदित्यनुवर्तते । तदाह — जनसनखनामित्यादिना । सायादिति । नकारस्य आत्वे सवर्णदीर्घः । द्रम हम्म । आद्योऽदुपधः । न वृद्धिरिति ।अद्रमी॑दित्यत्र हलन्तलक्षणायां वृद्धौनेटी॑ति निषिद्धायां ,ह्म्यन्ते॑त्यतोऽतो हलादेरिति वृद्धिर्नेत्यर्थः । जहम्मेति । अभ्यासचुत्वेन हस्य झः । तस्यअभ्यासे चर्चे॑त्यनेन जः । मिमीमेति । मीमृधातोर्णलि द्वित्वे अभ्यासह्रस्वः । अयं शब्दे चेति । मीमृधातुरित्यर्थः ।

Padamanjari

Up

जायत इति । यक् । नित्यं जादेशो भवतीति । तस्यानवकाशत्वात् । तेन श्यनि जायते इत्येव भवति, न तु कदाचित् जन्यत इति ॥