गमः क्वौ

6-4-40 गमः क्वौ असिद्धवत् अत्र आभात् नलोपः अनुनसिकलोपः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

गमः क्वौ परतोऽनुनासिकलोपो भवति। अङ्गगत्। कलिङ्गगत्। अ॒ध्व॒गतो॒ हर॑यः (शौ०सं०१३.१.३६)॥ गमादीनामिति वक्त व्यम्॥ इहापि यथा स्यात् — संयत्। परीतत् ॥ ऊ च गमादीनामिति वक्तव्यम्॥ अ॒ग्रे॒गूः (तै०सं० १.१.५.१)। अग्रेभूः॥

Siddhanta Kaumudi

Up

अनुनासिकलोपः स्यात् । अङ्गत् ।<!गमादीनामिति वक्तव्यम् !> (वार्तिकम्) ॥ परीतत् । संयत् । सुनुत् ।<!ऊङ् च गमादीनामिति वक्तव्यम् !> (वार्तिकम्) ॥ लोपश्च ॥ अग्रेगूः । अग्रेभ्रूः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<गमः क्वौ>> - अनुनासिकलोपः स्यादिति शेषपूरणमिदम् ।अनुदात्तोपदेशेटत्यतस्तदनुवृत्तेरिति भावः । झलादिप्रत्ययपरकत्वाऽभावादनुदात्तोपदेशेत्यप्राप्तौ वचनम् । अङ्गगमदिति । अङ्गाख्यं देशं गच्छतीति विग्रहः । क्विपि मकारलोपे तुक् । एवं वह्गगत् । कलिङ्गगदित्यादि । गमादीनामिति । 'क्वावनुनासिकलोप' इति शेषः । पुरीतदिति । पुरिः = ह्मदयाख्यो मांसखण्डविशेषः,तं तनोत = आच्छादयतीति विग्रहः । ह्मदयकमलाच्छादको मेदोविशेषः ।पुरीतता हि ह्मदयमाच्छाद्यते॑ इति श्रुति॑रिति कर्किभाष्यम् । तनेः क्विपि नकालोपे तुक् ।नहि वृत्तिवृषी॑ति पूर्वपदस्य दीर्घः । संयदिति । यमेः क्विप् । मलोपे तुक् । सुनदिति । नमेः क्विपि मलोपे तुक् । ऊ चेति । गमादीनामुपधाया ऊभावश्चेति वक्तव्यमित्यर्थः । लोपश्चेति.चकारादनुनासिकलोपः समुच्चीयते इति भावः । अग्रेगूरिति । अग्रे गच्छतीति विग्रहः । गमेरकास्य ऊभावः, मलोपश्च ।तत्पुरुषे कृति बहुल॑मित्यलुक् । अग्रेभ्रूरिति । भ्रमेरकारस्य ऊभावः, मलोपश्च ।

Padamanjari

Up

अध्वगत इति । अध्वनो गन्तार इत्यर्थः । अनुनासिकलोपे कृते ह्रस्वस्य तुक् । संयदिति । सम्पूर्वाद्यमेः क्विप् । परीतदिति । तनोतेः क्पिप्, नहिवृत्तिवृधि इत्यादिना पूर्वपदस्य दीर्घः। ऊचेति । चकारादनुनासिकलोपश्च । अग्रेगूरिति । अनुनासिकलोपे कृते अकारस्य ऊकारः । क्वचिद् ऊङिति ङ्कारः पठ।ल्ते, न त्सय प्रयोजनमस्ति । ओः सुपि इति यणादेशो धातुत्वाद्भवति - अग्रेग्वौ, अग्रेग्व। अग्रेभ्रूरिति । एवं, च कृत्वा अचिं श्नुधातु इत्यत्र भ्रूग्रहणं न कर्तव्यं धातुत्वादेव सिद्धम् ॥