6-4-39 न क्तिचि दीर्घः च असिद्धवत् अत्र आभात् नलोपः अनुदात्तोपदेशवनतितनोत्यादीनाम् अनुनसिकलोपः
क्ति चि परतोऽनुदात्तोपदेशादीनामनुनासिकलोपो दीर्घश्च न भवति। यन्तिः। वन्तिः। तन्तिः। अनुनासिकलोपे प्रतिषद्धे <<अनुनासिकस्य क्विझलोः क्ङिति>> ६.४.१५ इति दीर्घः प्राप्नोति, सोऽपि प्रतिषिध्यते॥
अनिटां वनतितनोत्यादीनां च दीर्घानुनासिकलोपौ न स्तः क्तिचि परे । यन्तिः । रन्तिः । वन्तिः । तन्तिः ॥