6-4-174 दाण्डिनायनहास्तिनायनाथर्वणिकजैह्माशिनायवाशिनायनिभ्रौणहत्यधैवत्यसारवैक्ष्वाकमैत्रेयहिरण्मयानि असिद्धवत् अत्र आभात् भस्य
दाण्डिनायन हास्तिनायन आथर्वणिक जैह्माशिनेय वासिनायनि भ्रौणहत्य धैवत्य सारव ऐक्ष्वाक मैत्रेय हिरण्मय इत्येतानि निपात्यन्ते। दण्डिन् हस्तिन् इत्येतौ नडादिषु ४.१.९९ पठ्येते, तयोरायने परतः प्रकृतिभावो निपात्यते। केषांचित् तु हस्तिन्निति नडादिषु न पठ्यते। तेषामत एव निपातनात् फगपि भवति। दण्डिनोऽपत्यं दाण्डिनायनः। हस्तिनोऽपत्यं हास्तिनायनः। अथर्वन्निति वसन्तादिषु ४.२.६३ पठ्यते। अथर्वणा प्रोक्तो ग्रन्थोऽपि उपचाराद् अथर्वन्नित्युच्यते। तमधीते यः स आथर्वणिकः। इके प्रकृतिभावो निपात्यते। जिह्माशिन्निति शुभ्रादिषु ४.१.१२३ पठ्यते। तस्य एये परतः प्रकृतिभावो निपात्यते। जिह्माशिनोऽपत्यं जैह्माशिनेयः। वासिनोऽपत्यम्,<<उदीचां वृद्धादगोत्रात्>> ४.१.१५७ इति फिञ्। तत्र प्रकृतिभावो निपात्यते। वासिनायनिः। भ्रूणहन् धीवन् इत्येतयोः ष्यञि परतस्तकारादेशो निपात्यते। भ्रूणघ्नो भावो भ्रौणहत्यम्। धीव्नो भावो धैवत्यम्। <<हनस्तोऽचिण्णलोः>> ७.३.३२ इति यत् तत्वं तद् धातुप्रत्यये एवेति भ्रौणघ्नो वार्त्रघ्न इत्यत्र न भवति, अतो भ्रौणहत्ये तत्वं निपात्यते। सारव इति सरयू इत्येतस्याणि परतोऽय्शब्दलोपो निपात्यते। सरय्वां भवं सारवमुदकम्। ऐक्ष्वाक इति स्वरसर्वनाम्ना एकश्रुत्या पठ्यते। ततोऽयमाद्युदात्तोऽन्तोदात्तश्च निपात्यते। इक्ष्वाकोरपत्यं <<जनपदशब्दात् क्षत्रियादञ्>> ४.१.१६८ इत्यञ्, तत्रोकारलोपो निपात्यते। ऐक्ष्वा॑कः। इक्ष्वाकुषु जनपदेषु भवः <<कोपधादण्>> ४.२.१३२ इत्यण्। एे॒क्ष्वा॒कः। मैत्रेय इति मित्रयुशब्दो गृष्ट्यादिषु ४.१.१३६ पठ्यते, ततो ढञि कृते यादेरियादेशापवादो युशब्दलोपो निपात्यते। मित्रयोरपत्यं मैत्रेयः। अथ किमर्थं मित्रयुशब्दो बिदादिषु ४.१.१०४ एव न पठ्यते, तत्राञि कृते यादेः ७.३.२ इति इयादेशेनैव सिद्धम्, एवं च युलोपार्थं निपातनं कर्तव्यं न भवति, यस्कादिषु २.४.६३ च बहुषु लुगर्थः पाठो न कर्तव्यो भवति, मित्रयव इत्यञः २.४.६४ इत्येव हि लुकः सिद्धत्वात्? नैतदस्ति। मित्रयूणां संघ इत्यत्र गोत्रचरणाद् ४.३.१२६ वुञं बाधित्वा मैत्रेयकः सङ्घ इत्यत्र <<सङ्घाङ्कलक्षणेष्वञ्यञिञामण्>> ४.३.१२७ इत्यण् प्राप्नोति। हिरण्मयमिति हिरण्यस्य मयटि यादिलोपो निपात्यते, हिरण्यस्य विकारो हिरण्मयः॥
एतानि निपात्यन्ते । इति युलोपः । मैत्रेयः । मैत्रेयौ ॥
<<दाण्डिनायनहास्तिनायनाथर्वणिकजैह्माशिनेय- वाशिनायनिभ्रौणहत्यधैवत्यसारवैक्ष्वाकमैत्रेयहिरण्मयानि>> - दाण्डिनायन । एतानि निपात्यन्ते इति । दण्डिनो हस्तिनश्चापत्यं दाण्डिनायनः, हास्तिनायनः । नडादित्वात्फक् । निपातनाट्टिलोपो न । अथर्वणा प्रोक्तो ग्रन्थ उपचारादथर्वा । तमधीते आथर्वणिकः । वसन्तादित्वाट्ठक् । निपातनान्न टिलोपः । जिहृआसिनोऽपत्यं जैहृआशिनेयः । शुभ्रादित्वाड्ढक् । निपातनान्न टिलोपः । वाशिनोऽपत्यं वाशिनायनिः ।उदीचां वृद्धा॑दिति फिञ् । निपातनान्न टिलोपः । भ्रूणहन्, धीवन्-एतयोर्भावे ष्यञ् । नकारस्य तकारश्च निपात्यते । नचहनस्तोऽचिण्णलो॑रित्यनेनैव तकारः सिद्व इति शङ्क्यं,धातोः कार्यमुच्यमानं तत्प्रत्यये भवती॑ति परिभाषया 'हनस्तः' इति तत्वस्य दातुविहितप्रत्यये पर एव प्रवृत्तेः । इदमेव तकारनिपातनमस्यां परिभाषायां ज्ञापकमितिमृजेर्वृद्धि॑रित्यत्र भाष्ये स्पष्टम् । तेन वात्र्रघ्नमित्यत्र तत्वं न । सरय्वां भवं सारवम् — उदकम् । अणि यू इत्यस्य व इत्यादेशो निपात्यते । इक्ष्वाकोरपत्यमैक्ष्वाकः । जनपदशब्दात्क्षत्रियादञ् । उकारलोपो निपात्यते । बहुत्वे तु तद्राजत्वाल्लुक् । इक्ष्वाकवः । इक्ष्वाकुषु जनपदेषु भवोऽप्यैक्ष्वाकः । कोपधादण् । उकारलोपश्च । सूत्रे ऐक्ष्वाकेत्यत्र अञणन्तयोर्ग्रहणम् । बहुत्वे तद्राजत्वादञो लुक् । अणस्तु नेति विशेषः । हिरण्यस्य विकारो हिरण्मयः । मयटि णकाराद्यकाराकारयोर्लोपः । इति युलोप इति । मित्रयु-एय इति स्थिते यु इत्यस्य लोपो निपातनादिति भावः । मैत्रेयीतिटिड्ढाण॑ञिति ङीप् ।
उपचारादिति । मुख्यस्याध्ययनासम्भव उपचारे हेतुः । भ्रौणहत्येति तु निपातनानर्थक्यम् , हनस्तोऽचिण्णलोः इति तकारस्य सिद्धत्वात् । न च नस्तद्धिते इति टिलोपप्रसङ्गः, उभयोरनित्ययोः परत्वातस्यैव भावादत आह - हनस्तोऽचिण्णलोरिति । धातुस्वरुपग्रहणे तत्प्रत्यये धातोरित्येवं विहितो यस्तत्रैव कार्यं विज्ञायते, न च ष्यञेवं विहितः, किं तर्हि प्रातिपदिकादित्येवम्, तेनात्र तो निपात्यते । कथं निपातनात् । एवं तर्हि कुत्वानिवृत्यर्थं निपातनम् मैवम् तथाहि - न क्वादेः इत्यत्र प्रकरणे भ्रूणघ्नः ष्यञि इत्यवक्ष्यत्, अतस्तत्वार्थमपि निपातनं सत् ज्ञापकमेव । ऐक्ष्वाकशब्दोऽयमाद्यौदातोऽन्तोदातश्चष्यते, तत्रान्यतरस्य पाठे इतरस्योकारलौपो न सिद्ध्यति, तत्राह - स्वरसर्वनाम्नोति । उदातादीनामविभागेनावस्थानम् - एकश्रुतिः, सर्वनामवत्सर्वनाम । यथैव हि तस्यापत्यम् इत्यादौ उपगुप्रभृतीन्विशेषान्सर्वनाम प्रतिपादयति, तथैकश्रुतिरप्युदातादीन्स्वरविशेषानिति एकश्रुतेः सर्वनामत्वम् । इयादेशापवाद इति । केकयादिसूत्रेण प्राप्त इयादेशः । इह मित्रयुशब्दस्य चतुर्ग्रहणं क्रियते - गृष्ट।लदिषु प्रत्ययसिद्ध्यर्थम्, यस्कादिषु लुगर्थम्, केकयादिसूत्रे इत्यादेशार्थम्, इदं चतुर्थं युलोपार्थम् तत्र द्विर्ग्रहणमकर्तु शक्यमित्यभिप्रायेणाह - अथ किमर्थमिति । लुगर्थः पाठो न कर्तव्य इति । यञञोरित्येव सिद्धत्वात् । परिहरति - नैतदस्तीति । अण्प्राप्नोतीति । यदी तु सङ्घाङ्कलक्षणेषु इत्यस्यानन्तरं न मैत्रेयादित्युच्येत, तदा त्रीणि ग्रहणानि, नार्थो निपातनेन । यलोप इति । युशब्दस्य लोप इत्यर्थः ॥