6-4-173 औक्षम् अनपत्ये असिद्धवत् अत्र आभात् भस्य
औक्षमित्यनपत्येऽणि टिलोपो निपात्यते। औक्षं पदम्। अनपत्य इति किम्? उक्ष्णोऽपत्यमौक्ष्णः। <<षपूर्वहन्धृतराज्ञामणि>> ६.४.१३५ इत्यलोपः॥
अणि टिलोपो निपात्यते । औक्षं पदम् । अनपत्ये किम् ? उक्ष्णोऽपत्यमौक्ष्णः ॥
<<औक्षमनपत्ये>> - औक्षम् । शेषपूरणेन सूत्रं व्याचष्टे-अणि टिलोपो निपात्य इति । 'अन्' इति प्रकृतिभावापवाद इति भावः । औक्षमिति । टिलोपे रूपम् । औक्ष्ण इति । अपत्येऽणि टिलोपाऽभावेऽल्लोप इति भावः ।