कार्मस्ताच्छील्ये

6-4-172 कार्मः ताच्छील्ये असिद्धवत् अत्र आभात् भस्य

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कार्म इति ताच्छील्ये टिलोपो निपात्यते। कर्मशीलः कार्मः। <<शीलम्>>, <<छत्रादिभ्योणः>> (४.४.६१,६२) इति णप्रत्ययः। यद्येवम्, किमर्थमिदम्, <<नस्तद्धिते>> ६.४.१४४ इत्येव टिलोपः सिद्धः? सत्यमेतत्। ज्ञापकार्थं तु। एतज् ज्ञापयति — <<ताच्छीलिके णेऽण्कृतानि भवन्ति>> इति। तेन चौरी, तापसीति णान्तादपीकारः सिद्धो भवति। ताच्छील्य इति किम्? कर्मण इदं कार्मणम्॥

Siddhanta Kaumudi

Up

कार्म इति ताच्छील्ये णे टिलोपो निपात्यते । कर्मशीलः कार्मः । नस्तद्धिते <{SK679}> इत्येव सिद्धे अण्कार्यं ताच्छीलिके णेऽपि । तेन चौरी तापसीत्यादि सिद्धम् । ताच्छील्ये किम् । कार्मणः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<कार्मस्ताच्छील्ये>> - कार्मस्ताच्छील्ये । तच्छीसं यस्य स तच्छीलः, तस्य भावस्ताच्छील्यम् । तस्मिन्वाच्ये 'कार्म' इति भवतीत्यर्थः । णप्रत्यये परे टिलोपः स्यादिति यावत् । तदाह — टिलोपो निपात्यत इति ।णो ।ञपो॑त्यनन्तरम्इति ज्ञापनार्थमिद॑मिति शेषः । अत्र टिलोपविधिर्हि 'अन्' इति प्रकृतिभावनिवृत्त्यर्थः । ततश्च अणि विहतस्य प्रकृतिभावस्य णप्रत्यये परतः प्रतिषेधादण्कार्यकारित्वं णप्रत्ययस्य ज्ञाप्यत इति भावः । तेनेति । चुरा शीलमस्याः, तपः शीलमस्या इति विग्रहे चुरातपःशब्दाभ्यां छत्रादित्वाण्णप्रत्यये सति तदन्ताभ्यामणन्तकार्ये ङीपि चौरी तापसीति सिद्धमित्यर्थः । कार्मणा इति ।तस्येद॑मित्यणि 'कार्मस्ताच्छील्ये' इत्यस्याऽप्रवृत्त्या 'अन्' इति प्रकतिभावान्न टिलोप इति भावः ।

Padamanjari

Up

यद्येवमिति । यदि तु णप्रत्ययोऽयमित्यर्थः । नस्तद्धित इति टिलपोः सिद्ध इति । अणि हि प्रकृतभावः । ज्ञापनार्थमिति । एवं च च्छत्रा दिभ्योऽण् इति लाघवाय कर्तव्यम् णवचने प्रयोजनाभावात् । ताच्छीलिक इति । लुल्यजीतीयविषवत्वाज्ज्ञापनस्यैतल्लभ्यते, तेन तदस्यां प्रहरणम्, प्रज्ञाश्रद्धार्चा इत्यादिके णे ङीब्न भवति ॥