ब्राह्मोऽजातौ

6-4-171 ब्राह्मः अजातौ असिद्धवत् अत्र आभात् भस्य अणि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

योगविभागोऽत्र क्रियते। ब्राह्म इत्येतदपत्याधिकारेऽपि सामर्थ्यादपत्यादन्यत्राणि टिलोपार्थं निपात्यते। ब्राह्मो गर्भः। ब्राह्ममस्त्रम्। ब्राह्मं हविः। ततोऽजातौ। अपत्य इत्येव। अपत्ये जातावणि ब्रह्मणष्टिलोपो न भवति। ब्रह्मणोऽपत्यं ब्राह्मणः। अपत्य इत्येव — ब्राह्मी ओषधिः॥

Siddhanta Kaumudi

Up

योगविभागोऽत्र कर्तव्यः । ब्राह्मः इति निपात्यते अनपत्येऽणि । ब्राह्मं हविः । ततो जातौ । अपत्येजातावणि ब्रह्मणष्टिलोपो न स्यात् । ब्राह्मणोऽपत्यं ब्राह्मणः । अपत्ये किम् ? ब्राह्मी औषधिः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<ब्राह्मोअजातौ>> - ब्राआहृओ जातौ । ब्राहृन्शब्दादपत्ये अणि 'न मपूर्वोऽपत्ये' इति प्रकृतिभावनिषेधो जातावेवेत्यर्थः फलति । तथा सति ब्राहृणो ।ञपत्यं ब्राआहृणैति जातिविशेषे न सिध्येत्,न मपूर्वः॑ इति प्रकृतिभावनिषेधे सति 'नस्तद्धिते' इति टिलोपस्य दुर्वारत्वात् । किंच ब्राहृआ देवता अस्य ब्राआहृं हविरिति न सिध्येत्, 'न मपूर्वं' इति प्रकृतिभावनिषेधस्य जातावेवेति नियमितत्वेन अनिति प्रकृतिभावाट्टिलोपाऽसंभवात् । अत आह — योगविभाग इति । 'ब्राआहृ' इत्येकं सूत्रम् । तत्र 'इनण्यनपत्ये' इत्यतोऽनपत्येऽणीत्यनुवर्तते । तदाह — ब्राआहृ इति निपात्यते अनपत्ये ।ञणीति । तथाच ब्राहृन्शब्दादनपत्येऽणि अनिति प्रकृतिबावनिवृत्तेष्टिलोपः फलित इति मत्वोदाहरति — ब्राआहृं हविरिति । ब्राहृआ देवता अस्येति विग्रहः ।सास्य देवते॑त्यण् । ततो जाताविति । ततो=॒ब्राआहृ॑ इति सूत्रात्पृथगेव, जाताविति सूत्रं कर्तव्यमित्यर्थः । इहन मपूर्वोऽपत्येऽवर्मणः॑ इति सूत्रादपत्ये इति,प्रकृत्यैका॑जित्यतः प्रकृत्येति चानुवर्तते । तदाह — अपत्ये जाताविति । ब्राआहृण इति । ब्राहृणः सकाशात्सजातीयायां भार्यायामुत्पन्न इत्यर्थः । योगविभागस्त्वयं भाष्ये स्पष्टः ।

Padamanjari

Up

योगविभागोऽत्र क्रियते इति । यदि न क्रियते, तदापत्य इत्यनुवर्तते वा, न वा तत्रानुवृतावनन्तरसूत्रेण प्रकृतिभावप्रतिषेधात् नस्तद्धिते इत्येव टिलोपस्य सिद्धत्वान्नियमार्थमेतद्भवति - अजातावेवापत्ये इति, तत्रापत्ये सिद्धमिष्टम् - ब्राह्माए नारदः, ब्राह्मणजातिरिति । अनपत्ये तु जातावजातौ च न क्वचिट्टिलोपः स्याद् - ब्राह्मी ओषधिः, ब्राह्मं हविरिति । अननुवृतौ तु विधिनियमसम्भवे विधिरेव ज्यायानिति अनपत्ये अन् इति प्रकृतिभावे प्राप्ते अजातौ टिलोपार्थं विध्यर्थमेतद्भवति , तत्र ब्राह्मं हविरित्यादि सिद्धम्, ब्राह्मी ओषधिरिति न सिध्यति अजाताविति प्रतिषेधात्, ब्राह्मणी ओषधिरिति प्राप्नोति । अपत्ये च जातौ ब्राह्मण इति न सिध्यति, पूर्वसूत्रेण प्रकृतिभावे प्रतिषिद्धे टिलोपप्रसङ्गादिति भावः । विभक्तस्यार्थमाह - ब्राह्म इत्येतदिति । सामर्थ्यादिति । अपत्ये पूर्वेणैव टिलोपस्य सिद्धत्वाद्भाह्म इत्येतावता नियमस्य कर्तुमशक्यत्वाच्च, तत्रापत्येऽपि ब्राह्माए नारद इति परत्वादनेनैव टिलोपः । अपत्ये वेति । अन्यथा अनपत्ये वापत्ये च जातौ प्रतिषेधः स्यात्, प्रसज्यप्रतिषेश्चायमित्याह - अपत्ये जाताविति ॥