गाथिविदथिकेशिगणिपणिनश्च

6-4-165 गाथिविदथिकेशिगणिपणिनः च असिद्धवत् अत्र आभात् भस्य प्रकृत्या इन् अणि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

गाथिन् विदथिन् केशिन् गणिन् पणिन् इत्येते चाणि प्रकृत्या भवन्ति। गाथिनोऽपत्यं गाथिनः। वैदथिनः। कैशिनः। गाणिनः। पाणिनः। अपत्यार्थोऽयमारम्भः॥

Siddhanta Kaumudi

Up

एतेऽणि प्रकृत्या स्युः । इति टिलोपो न । ततो यूनि इञ् पाणिनिः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<गाथिविदथिकेशिगणिपणिनश्च>> - गाथिविदथि । 'इनण्यनपत्ये' इत्यतोऽणीत्यनुवर्तते ।प्रकृत्यैका॑जित्यतः प्रकृत्येति च । तदाह — एतेऽणि प्रकृत्या स्युरिति । गाथिन्, विदथिन्, केशिन्, गणिन्, पणिन्-एते इत्यर्थः । अपत्येऽप्यणि प्रकृतिभावार्थमिदम् । ततो यून्यपत्ये इति । मूलप्रकृतिपणी । तदपेक्षया चतुर्थेऽपत्ये यूनि विवक्षिते पाणिनशब्दाद्गोत्राऽणन्तादत इञि पाणिनिरिति रूपमित्यर्थः । पाणिन शब्दस्य अनन्तरापत्यप्रत्ययान्तत्वे तु ततोऽनन्तरापत्ये मूलप्रकृतिपण्यपेक्षया तृतीये गोत्रापत्ये इञ्न संभवति, 'एको गोत्रे' इति नियमात् । नापि मूलप्रकृत्यपेक्षया चतुर्थाऽपत्ये यूनि पाणिनशब्दादनन्तरापत्यप्रत्ययान्तादिञ्संभवति,गोत्राद्यून्यस्त्रिया॑मिति यून्यपत्ये गोत्रप्रत्ययान्तादेवाऽपत्यप्रत्ययनियमात् । अतो गोत्राऽण्प्रत्ययान्तात्पाणिनशब्दाद्यूनि इञ्प्रत्यय इत्युक्तमिति बोध्यम् ।

Padamanjari

Up

मत्वर्थीयेन्नन्ता एते । गाथाशब्दो व्रीह्मादिः । विदथः - यज्ञः ॥