गाथिविदथिकेशिगणिपणिनश्च

6-4-165 गाथिविदथिकेशिगणिपणिनः च असिद्धवत् अत्र आभात् भस्य प्रकृत्या इन् अणि

Kashika

Up

index: 6.4.165 sutra: गाथिविदथिकेशिगणिपणिनश्च


गाथिन् विदथिन् केशिन् गणिन् पणिनित्येते च अणि प्रकृत्या भवन्ति। गाथिनः अपत्यं गाथिनः। वैदथिनः। कैशिनः। गाणिनः। पाणिनः। अपत्यार्थोऽयमारम्भः।

Siddhanta Kaumudi

Up

index: 6.4.165 sutra: गाथिविदथिकेशिगणिपणिनश्च


एतेऽणि प्रकृत्या स्युः । इति टिलोपो न । ततो यूनि इञ् पाणिनिः ॥

Balamanorama

Up

index: 6.4.165 sutra: गाथिविदथिकेशिगणिपणिनश्च


गाथिविदथिकेशिगणिपणिनश्च - गाथिविदथि । 'इनण्यनपत्ये' इत्यतोऽणीत्यनुवर्तते ।प्रकृत्यैका॑जित्यतः प्रकृत्येति च । तदाह — एतेऽणि प्रकृत्या स्युरिति । गाथिन्, विदथिन्, केशिन्, गणिन्, पणिन्-एते इत्यर्थः । अपत्येऽप्यणि प्रकृतिभावार्थमिदम् । ततो यून्यपत्ये इति । मूलप्रकृतिपणी । तदपेक्षया चतुर्थेऽपत्ये यूनि विवक्षिते पाणिनशब्दाद्गोत्राऽणन्तादत इञि पाणिनिरिति रूपमित्यर्थः । पाणिन शब्दस्य अनन्तरापत्यप्रत्ययान्तत्वे तु ततोऽनन्तरापत्ये मूलप्रकृतिपण्यपेक्षया तृतीये गोत्रापत्ये इञ्न संभवति, 'एको गोत्रे' इति नियमात् । नापि मूलप्रकृत्यपेक्षया चतुर्थाऽपत्ये यूनि पाणिनशब्दादनन्तरापत्यप्रत्ययान्तादिञ्संभवति,गोत्राद्यून्यस्त्रिया॑मिति यून्यपत्ये गोत्रप्रत्ययान्तादेवाऽपत्यप्रत्ययनियमात् । अतो गोत्राऽण्प्रत्ययान्तात्पाणिनशब्दाद्यूनि इञ्प्रत्यय इत्युक्तमिति बोध्यम् ।

Padamanjari

Up

index: 6.4.165 sutra: गाथिविदथिकेशिगणिपणिनश्च


मत्वर्थीयेन्नन्ता एते । गाथाशब्दो व्रीह्मादिः । विदथः - यज्ञः ॥