6-4-162 विभाषा ऋजोः छन्दसि असिद्धवत् अत्र आभात् भस्य इष्ठेमेयस्सु र ऋतः
ऋजु इत्येतस्य ऋतः स्थाने विभाषा रेफ आदेशो भवतीष्ठेमेयस्सु परतश्छन्दसि विषये। रजि॑ष्ठ॒मनु॑ नेषि॒ पन्था॑म् (ऋ० १.९१.१)। त्वमृजिष्ठः॥
ऋजुशब्दस्य ऋतः स्थाने रः स्याद्वा इष्ठेमेयस्सु । त्वं रजिष्टमनुनेषु (त्वं रजि॑ष्ट॒मनु॑नेषु) । ऋजिष्ठं वा ॥