इष्ठस्य यिट् च

6-4-159 इष्ठस्य यिट् च असिद्धवत् अत्र आभात् भस्य इष्ठेमेयस्सु

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

बहोरुत्तरस्येष्ठस्य यिडागमो भवति, बहोश्च भूरादेशो भवति। भूयिष्ठः। लोपापवादो यिडागमः, तस्मिन्निकार उच्चारणार्थः॥

Siddhanta Kaumudi

Up

बहोः परस्य इष्ठस्य लोपः स्यात् यिडागमश्च । भूयिष्ठः ॥

Laghu Siddhanta Kaumudi

Up

बहोः परस्य इष्ठस्य लोपः स्याद् यिडागमश्च। भूयिष्ठः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<इष्ठस्य यिट् च>> - इष्ठस्य यिट् च । लोपः स्यादिति ।आदेः परस्ये॑ति बोध्यम् । यिटि टकार इत् । इष्ठस्यादिलोपे कृते यिडागमः । ट इत् । टित्त्वात्प्रत्ययस्याद्यवयवः । बहोर्भूभावस्तु पूर्वसूत्रेण सिद्ध एव । यदि तु लोप इति निवृत्तं तदा यकार आगम इति भाष्यम् ।

Padamanjari

Up

लोपापवादो यिडागम इति । नाप्राप्ते तस्मिन्नारम्भात् । तस्मिन्निति । लोपापावदभूते । यदि तु लोपोऽप्यनुकृष्य विधीयते तदा इकारो नोच्चारणार्थः ॥