6-4-154 तुः इष्ठेमेयस्सु असिद्धवत् अत्र आभात् भस्य लोपः
इष्ठन् इमनिच् ईयसुन् इत्येतेषु परतः तृशब्दस्य लोपो भवति। आसु॒तिं करि॑ष्ठः (ऋ० ७.९७.७)। विजयिष्ठः। वहिष्ठः। दोहीयसी धेनुः। सर्वस्य तृशब्दस्य लोपार्थं वचनम्। अन्त्यस्य हि <<टेः>> ६.४.१५५ इत्येव सिद्धः। लुगित्येतदत्र नानुवर्तते। तथाहि सति <<न लुमताङ्गस्य>> १.१.६३ इति प्रतिषेधाद् गुणो न स्यात्। इमनिज्ग्रहणमुत्तरार्थम्। इतरौ तु <<तुश्छन्दसि>> ५.३.५९ इति भवतः॥
तृशब्दस्य लोपः स्यादिष्ठेमेयः सु परेषु । अतिशयेन कर्ता करिष्ठः । दोहीयसी धेनुः ॥
दोहीयसीत्यत्र घत्वादीनामसिद्धत्वात्पूर्वं तृशब्दस्य लोपे कृते पश्चान्निमिताभावातेपामभावः । लोपो भवति इत्युक्त, तत्रन्त्यस्य प्राप्नात्यत आह - सर्वस्येति । कारणमाह - अन्त्यस्य हीति । नन्वेवमनन्तरो लुगेव विधेयः, एवं सुखमेव सर्वस्य निवृत्तिर्लभ्यते अत आह - लुगित्येतत्विति । कः पुनस्तदनुवृतौ दोषः स्याद् अत आह - तथा हीति । न च पूर्वमेव गुणो भवति अन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते इति वचनात् । इमनिज्ग्रहणमुतरार्थमिति । नेहार्थम्, तृशब्दातस्यासम्भावात् । न चेदमेव कल्पकं भवितुमर्हति, उतरार्थतयाप्युपपतेः । नन्वेवमजादी गुणवचनादेव इति नियमादिष्ठेयसुनोरपि न सम्भवः अत आह - इतरौ त्विति ॥