6-4-153 बिल्वकादिभ्यः छस्य लुक् असिद्धवत् अत्र आभात् भस्य लोपः तद्धिते
index: 6.4.153 sutra: बिल्वकादिभ्यश्छस्य लुक्
नडादिषु बल्वादयः पठ्यन्ते। नडादीनां कुक् च 4.2.91 इति कृतकुगागमा बिल्वकादयो भवन्ति। तेभ्यः उत्तरस्य छस्य भस्य तद्धिते परतो लुग् भवति। बिल्वा यस्यां सन्ति बिल्वकीया, तस्यां भवाः बैल्वकाः। वेणुकीया वैणुकाः। वेत्रकीया वैत्रकाः। वेतसकीया वैतसका। तृणकीया तार्णकाः। इक्षुकीया ऐक्षुकाः। काष्ठकीया काष्ठकाः। कपोतकीया कापोतकाः। क्रुञ्चायां ह्रस्वत्वं च। क्रुञ्चकीया क्रौञ्चकाः। छग्रहणम् किम्? छमात्रस्य लुग् यथा स्यात्, कुको निवृत्तिर्मा भूतिति। अन्यथा हि संनियोगशिष्टानामन्यतरापाये उभयोरपि अभावः इति कुगपि निवर्तेत। लुग्ग्रहणं सर्वलोपो यथा स्याद्, यकारमात्रस्य मा भूत्।
index: 6.4.153 sutra: बिल्वकादिभ्यश्छस्य लुक्
नडाद्यन्तर्गता बिल्वकादयस्तेभ्यश्छस्य लुक् तद्धिते परे । बिल्वा यस्यां सन्ति सा बिल्वकीया । तस्यां भवा बैल्वकाः । वेत्रकीयाः । वैत्रकाः । छस्य किम् । छमात्रस्य लुग्यथा स्यात्कुको निवृत्तिर्माभूत् । अन्यथा [(परिभाषा - ) संनियोगशिष्टानाम्] इति कुगपि निवर्तेत । लुग्ग्रहणं सर्वलोपार्थम् । लोपो हि यमात्रस्य स्यात् ॥। इति तद्धिताधिकारे चातुरर्थिकप्रकरणम् ।
index: 6.4.153 sutra: बिल्वकादिभ्यश्छस्य लुक्
बिल्वकादिभ्यश्छस्य लुक् - बिल्वरादिभ्यः । षाष्ठमिदं सूत्रम् । बिल्वकादीति-नडाद्यन्तर्गबिल्वादीनां कृतकुगागमानां निर्देशः । ककारादकार उच्चारणार्थः । तद्धिते इति ।आपत्यस्य च तद्धिते॑ इत्यतस्तदनुवृत्तेरिति भावः । बिल्वकीयेति ।नडादीनां कुक्चे॑ति छः । प्रकृते कुक्च । बैल्वका इति । बिल्वकीयशब्दाद्भवार्थे अण् । तस्मिन्परे छस्य लुगिति भावः । वेत्रकीया इति । वैत्राणि अस्यां सन्तीत्यर्थे नडादित्वाच्छः, प्रकृते कुक्चेति भावः । वैत्रका इति । वेत्रकीयायां भवा इत्यर्थः । वेत्रकीया शब्दादणि छस्य लुगिति भावः । छस्य किमिति । एभ्यः परस्य छस्यैव संभव इति प्रश्नः । संनियोगेति ।संनियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्ति॑रिति न्यायेनेत्यर्थः । 'ढे लोपोऽकद्र्वाः' इत्यतो लोप इत्यनुवृत्त्यैव सिद्धे लुग्ग्रहणं किमर्थमित्यत आह — लुग्ग्रहणं सर्वलोपार्थमिति । प्रत्ययाऽदर्शनस्यैव लुक्शब्दार्थत्वात्कृत्स्नस्य ईयस्य लोपो लभ्यते इति भावः । लोपविधौ तु नैवं लभ्यते इत्याह — लोपो हीति । लोपविधौसूर्यतिष्ये॑त्यतो 'य उपधायाः' इत्यनुवृत्तौ बिल्वादिभ्यः परस्य छादेशभूतस्य ईयस्य उपधाभूतो यो यकारस्तस्य लोप इत्यर्थलाभाद्यकारमात्रस्य लोपः स्यात् । 'यः उपधायाः' इत्यननुवृत्तौ तुआदेः परस्ये॑ति ईकारस्यैव लोपः स्यादिति भावः । द्यकारमात्रस्य लोपः स्यात् । 'य उपधायाः' इत्यनननुवृत्तौ तुआदेः परस्ये॑ति ईकारस्यैव लोपः स्यादिति भावः । *इति बालमनोरमायाम् चातुरर्थिकाः ।***तिङन्ते चुरादयःअथ स्वार्थिकणिजन्ताश्चुरादिधातवो निरूप्यन्ते । चुर स्तेये इति । रेफादकार उच्चारणार्थः, न त्वित्संज्ञकः, प्रयोजनाऽभावात्, 'णिचश्च' ति पदव्यवस्थाया वक्ष्यमामत्वाच्च । एवमग्रेऽपि ।
index: 6.4.153 sutra: बिल्वकादिभ्यश्छस्य लुक्
बिल्वकादीनामस्मिन्प्रदेशे प्रातिपदिकगणे पाठाभावातत्परिज्ञानार्थमाह - नडादिष्विति । नडादिषु बिल्वादयस्तावत्पठ।ल्न्ते, तत्र कुकि कृते यद्रूपं ककारान्तं तदिहानुकृतम् । बिल्वक् आदिर्येषामिति विगृह्य समासः । जश्त्वे तु क्रियमाणे रुपविनाशप्रसङ्गान्न कृतमित्यर्थः । तेन बिल्वक आदिर्येषामिति अज्ञातादिषु यः एकस्तदन्तानां ग्रहणं नाशङ्कनीयम् पाठाभावात् ।च्छग्रहणं किमिति । कृतकुगागमेभ्यः परस्तादन्यो न सम्भवतीति प्रश्नः कथं पुनः कुको निवृत्तिप्रसङ्गः इत्याह - अन्यथा हीति । इदमेव च्छग्रहणं ज्ञापकम् - अस्त्येषा परिभाषेति । यकारमात्रस्येति । उपधाया इत्यनुवृतेस्तस्यैव स्याद् । अथापि तन्निवृतम्, एवमपि, आदेः परस्य इति परस्य प्रसङ्गादनिष्टमेव ॥