अर्वणस्त्रसावनञः

6-4-127 अर्वणः त्रु अस्वौ अनञः असिद्धवत् अत्र आभात्

Kashika

Up

index: 6.4.127 sutra: अर्वणस्त्रसावनञः


अर्वनित्येतस्य अङ्गस्य तृ इत्ययमादेशो भवति, सुश्चेत् ततः परो न भवति, स च नञ उत्तरो न भवति। अर्वन्तौ। अर्वन्तः। अर्वन्तम्, अर्वतौ, अर्वतः। अर्वता, अर्वद्भ्याम्, अर्वद्भिः। अर्वती। आर्वतम्। असौ इति किम्? अर्वा। अनञः इति किम्? अनर्वाणौ। अनर्वाणः। अनर्वाणं वृषभं मन्द्रजिह्वम्।

Siddhanta Kaumudi

Up

index: 6.4.127 sutra: अर्वणस्त्रसावनञः


नञा रहितस्यार्वन्नन्तस्याङ्गस्य तृ इत्यन्तादेशः स्थान्न तु सौ । उगित्त्वान्नुम् । अर्वन्तौ । अर्वन्तः । अर्वन्तम् । अर्वन्तौ । अर्वतः । अर्वता । अर्वद्भ्यामित्यादि ॥ अनञः किम् । अनर्वा । यज्ववत् ॥

Laghu Siddhanta Kaumudi

Up

index: 6.4.127 sutra: अर्वणस्त्रसावनञः


नञा रहितस्यार्वन्नित्यस्याङ्गस्य तृ इत्यन्तादेशो न तु सौ। अर्वन्तौ। अर्वन्तः। अर्वद्भ्यामित्यादि॥

Balamanorama

Up

index: 6.4.127 sutra: अर्वणस्त्रसावनञः


अर्वणस्त्रसावनञः - तस्य सौ राजवद्रूपं मत्वाह — अर्वा । हे अर्वन्निति । अर्वणस्त्रासावनञः । तृ-असौ इति छेदः । न विद्यते नञ् यस्येति बहुव्रीहिः । अङ्गस्येत्यधिकृतमर्वणा विशेष्यते । तदाह — नञा रहितस्येत्यादिना । ऋकार इत् ।अलोऽन्त्यस्ये॑ति नस्य तः । उगित्त्वान्नुमिति ।उगिदचा॑मित्यनेनेति भावः । अर्वन्ताविति । नुमो नस्यनश्चापदान्तस्ये॑ति अनुस्वारः, परसवर्ण इति भावः । शसादावचि असर्वनामस्थानत्वान्नुम् नेति मत्वाह-अर्वत इति । अर्वद्भ्यामिति । 'स्वादिषु' इति पदत्वाज्जश्त्वमिति भावः । इत्यादीति । अर्वद्भिः । अर्वते । अर्वद्भ्यः । अर्वतः अर्वतोः अर्वताम् । अर्वति । अर्वत्सु । अनञः किमिति । 'अनञः' इत्यस्य किं प्रयोजनमित्यर्थः । अनर्वा यज्ववदिति । अनर्वन्शब्दो यज्ववदित्यर्थः । शसादावचिन संयोगाद्वमन्ता॑दित्यल्लोपो नेति बावः । पथिन्, मथिन्, ऋभुक्षिन्, एते नकारान्ताः ।

Padamanjari

Up

index: 6.4.127 sutra: अर्वणस्त्रसावनञः


ऋकार उगित्कार्यार्थः तेन सर्वनामस्थाने नुम् भवति । स च नञ उतरो न भवतीति । चेदित्यनुषङ्गः । अर्वतीति उगित्वान्नान्तत्वाद्वा ङीप् । आर्वतमिति । तद्धितेऽपि भवति, असाविति प्रसज्यप्रतिषेधो न पर्युदासः, तेन नञिवयुक्तन्यायाभावाद्विभक्तेरेव ग्रहणं न भवति, तथा च सुश्चेत्परो न भवतीति प्रथमैकवचनस्य चात्र ग्रहणम्, न सप्तमीबहुवचनस्य, व्याख्यानात् ॥