न शसददवादिगुणानाम्

6-4-126 न शसददवादिगुणानाम् असिद्धवत् अत्र आभात् क्ङिति अभ्यासलोपः च अतः एक हल् मध्ये अनादेशादेः थलि च सेटि

Kashika

Up

index: 6.4.126 sutra: न शसददवादिगुणानाम्


शस दद इत्येतयोः वकारादीनां च धातूनां गुण इत्येवमभिनिर्वृत्तस्य च योऽकारः तस्य स्थाने एकारादेशो न भवति, अभ्यासलोपश्च। विशशसतुः। विशशसुः। विशशसिथ। दददे, दददाते, ददरिरे। वादीनाम् ववमतुः। ववमुः। ववमिथ। गुणस्य विशशरतुः। विशशरुः। विशशरिथ। लुलविथ। पुपविथ। गुणशब्दाभिनिर्वृत्तस्य अर्शब्दस्य ओकारस्य च अयमकारः इति एत्वं प्रतिषिध्यते।

Siddhanta Kaumudi

Up

index: 6.4.126 sutra: न शसददवादिगुणानाम्


शसेर्ददेर्वकारादीनां गुणशब्देन भावितस्य च योऽकारस्तस्य एत्वाभ्यासलोपौ न । दददे । दददाते । दददिरे ।{$ {!18 ष्वद!} {!19 स्वर्द!} आस्वादने$} । अयमनुभवे सकर्मकः । रुचावकर्मकः ॥

Laghu Siddhanta Kaumudi

Up

index: 6.4.126 sutra: न शसददवादिगुणानाम्


शसेर्ददेर्वकारादीनां गुणशब्देन विहितो योऽकारस्तस्य एत्त्वाभ्यासलोपौ न। दददे। दददाते। दददिरे। ददिता। ददिष्यते। ददताम्। अददत। ददेत। ददिषीष्ट। अददिष्ट। अददिष्यत॥ {$ {! 20 त्रपूष् !} लज्जायाम् $}॥ त्रपते॥

Balamanorama

Up

index: 6.4.126 sutra: न शसददवादिगुणानाम्


न शसददवादिगुणानाम् - न शसदद । शस दद वादि गुण — एषां द्वन्द्वः । अवयवषष्ठी । गुणशब्देन विहित एव गुणोऽत्र गुणशब्देन विहितत्वाऽभावान्नायं निषेधः । पृधातोः पपरतुरिति तु गुणस्योदाहरणम्, गुणशब्देन विहितो योऽर् तदवयवत्वादकारस्येति बोध्यम् । ददद इति । ददेर्लिटस्तादेशस्य एशि द्वित्वे 'अत एकहल्मध्ये' इति प्राप्तावेत्तवाभ्यासलोपौ न भवतः । ष्वद स्वर्देति । आस्वादनम् — अनुभवः । प्रीतिविषयीभावात्मिका रुचिर्वा । तदाह — अयमिति । प्रत्येकाभिप्रायमेकवचनम् ।

Padamanjari

Up

index: 6.4.126 sutra: न शसददवादिगुणानाम्


अत्र वस्तुतो यो गुणसंज्ञकोऽकारस्तत्रैव यदि प्रितषेधस्तर्हि विधिप्रतिषेधयोरेकविषयत्वाद्विकल्पः स्यात्, ततश्च वा जभ्रमुत्रः, साम् इति यद्वाग्रहणं तदेवादितः पाठ।ल्ं स्यात्, तस्माद् गुणग्रहणेन तच्छब्दरुषितस्य तद्भावि तस्य ग्रहणमित्याह - गुण इत्येवममिनिर्वृतस्य चेति । तस्य सम्बन्धी योऽकार इत्यर्थः । सम्बन्धित्वमपि तस्य तत्स्थानिकत्वातदवयवत्वाच्च यथायोगं वेदितव्यम् । शशसतुरिति । शसु हिंसायाम्, दद दाने, अनुदातेत्, टुअवमुद्गिरणे । विशशरतुरिति । शृ हिंसायाम्, ऋच्छत्यृताम् इति गुणः । यदुक्तम् - गुण इत्येवमभिनिर्वृतस्य इति, तदुदाहरणं दर्शयति - गुणशब्दाभिनिर्वृतस्येति । उरण् रपरः इत्यत्र सिद्धं तु प्रसङ्गे रपरत्वात् इति वचनाद्गुणो भवन्नेव रेफशिरस्कोऽभिनिर्वर्तते, एवमभिनिर्वृतस्यार्शब्दस्यावयवोऽकारः । लुलविथेत्यत्र तु अभिनिर्वृतस्योकारस्य स्थानेऽवादेशास्तदवयवोऽकारः । क्वचित्पठ।ल्ते - गुणशब्देनात्र शसादीनां ग्रहणसामर्थ्यातद्भावितस्य ग्रहणमिति । अकारमात्रस्य हि ग्रहणे शशिदद्योर्वकारादीनां च ग्रहणमनर्थकं स्यादिति किल तस्यार्थः ॥