6-4-125 फणां च सप्तानाम् असिद्धवत् अत्र आभात् क्ङिति अभ्यासलोपः च अतः एक हल् मध्ये अनादेशादेः थलि च सेटि वा
index: 6.4.125 sutra: फणां च सप्तानाम्
फणादीनां सप्तानां धातूनामवर्णस्य स्थाने वा एकार आदेशो भवति, अभ्यासलोपश्च लिटि क्ङिति परतः थलि च सेटि। फेणतुः। फेणुः। फेणिथ। पफणतुः। पफणुः। पफणिथ। रेजतुः। रेजुः। रेजिथ। रराजतुः। रराजुः। रराजिथ। भ्रेजे, भ्रेजाते, भ्रेजिरे। बभ्राजे, बभ्राजाते, बभ्राजिरे। भ्रेशे, भ्रेशाते, भ्रेशिरे। बभ्राशे, बभ्राशाते, बभ्राशिरे। भ्लेशे, भ्लेशाते, भ्लेशिरे। बभ्लाशे, बभ्लाशाते, बभ्लाशिरे। स्येमतुः। स्येमुः। स्येमिथ। सस्यमतुः। सस्यमुः। सस्यमिथ। स्वेनतुः। स्वेनुः। स्वेनिथ। सस्वनतुः। सस्वनुः। सस्वनिथ। सप्तानाम् इति किम्? दघ्बनतुः। दध्बनुः। दध्वनिथ।
index: 6.4.125 sutra: फणां च सप्तानाम्
एषां वा एत्वाभ्यासलोपौ स्तः किति लिटि सेटि थलि च । फेणतुः । फेणुः । फेणिथ । पफणतुः । पफणुः । फणयति ॥ वृत् ॥ घटादिः समाप्तः । फणेः प्रागेव वृदित्येके । तन्मते फयतीत्येव ।{$ {!822 राजृ!} दीप्तौ$} । स्वरितेत् । राजति । राजते । रेजतुः । रराजतुः । रेजे । रराजे । अत इत्यनुवृत्तावपि विधानसामर्थ्यादात एत्वम् ।{$ {!823 टुभ्राजृ!} {!824 टुभ्राशृ!} {!825 टुभ्लाशृ!} दीप्तौ$} । अनुदात्तेतः । भ्राजतेरिह पाठः फणादिकार्यार्थः । पूर्वं पाठस्तु व्रश्चादिषत्वाभावार्थः । तत्र हि राजिसाहचर्यात् फणादेरेव ग्रहणम् । भ्रेजे । बभ्राजे । वा भ्राश -<{SK2321}> इति श्यन्वा । भ्राश्यते । भ्राशते । भ्रेशे । बभ्राशे । भ्लाश्यते । भ्लाशते । भ्लेशे । बभ्लाशे । द्वावपीमौ तालव्यान्तौ ।{$ {!826 स्यमु!} {!827 स्वन!} {!828 ध्वन!} शब्दे$} । स्यमादयः क्षरत्यन्ताः परस्मैपदिनः । स्येमतुः । सस्यमतुः । अस्यमीत् । स्वेनतुः । सस्वनतुः । अस्वानीत् । अस्वनीत् । विष्वणति । अवष्वणति । सशब्दं भुङ्क्ते इत्यर्थः । वेश्च स्वनः - <{SK2274}> इति षत्वम् । फणादयो गताः । दध्वनतुः ।{$ {!829 षम!} {!830 ष्टम!} अवैकल्ये$} । ससाम । तस्ताम ।{$ {!831 ज्वल!} दीप्तौ$} । अतो ल्रान्तस्य <{SK2330}> अज्वालीत् ।{$ {!832 चल!} कम्पने$} ।{$ {!833 जल!} घातने$} । घातनं तैक्ष्ण्यम् ।{$ {!834 टल!} {!835 ट्वल!} वैक्लव्ये$} ।{$ {!836 ष्ठल!} स्थाने$} ।{$ {!837 हल!} विलेखने$} ।{$ {!838 णल!} गन्धे$} । बन्धन इत्येके ।{$ {!839 पल!} गतौ$} । पलति ।{$ {!840 बल!} प्राणने धान्यवारोधने च$} । बलति । बेलतुः । बेलुः ।{$ {!841 पुल!} महत्त्वे$} । पोलति ।{$ {!842 कुल!} संस्त्याने बन्धुषु च $}। संस्त्यानं संघातः । बन्धुशब्देन तद्व्यापारो गृह्यते । कोलति । चुकोल ।{$ {!843 शल!} {!844 हुल!} {!845 पत्लृ!} गतौ$} । शशाल । जुहोल । पपात । पेततुः । पतिता ॥
index: 6.4.125 sutra: फणां च सप्तानाम्
बहुवचनिर्देशादाद्यर्थो गम्यत इत्याह - फणादीनामिति । फण गतौ, राजृ दीप्तौ, टुअभ्राशृ टुअभ्राजृ टुअभलाशृ दीप्तौ, स्यमुस्वनध्वन शब्दे, अन्त्यवर्जं फणादयः सप्त । अत्र राजप्रभृतीनामप्येत्वमवर्णस्य भवति । उक्तोऽत्र न्यायः राधो हिंसायाम् इत्यत्र ॥