वा जॄभ्रमुत्रसाम्

6-4-124 वा जॄभ्रमुत्रसाम् असिद्धवत् अत्र आभात् क्ङिति अभ्यासलोपः च अतः एक हल् मध्ये अनादेशादेः थलि च सेटि

Kashika

Up

index: 6.4.124 sutra: वा जॄभ्रमुत्रसाम्


जॄष् भ्रमु त्रस इत्येतेषामङ्गानामतः स्थाने वा एकार आदेशो भवति, अभ्यासलोपश्च लिटि क्ङिति परतः थलि च सेटि। जेरतुः। जेरुः। जेरिथ। जजरतुः। जजरुः। जजरिथ। भ्रेमतुः। भ्रेमुः। भ्रेमिथ। बभ्रमतुः। बभ्रमुः। बभ्रमिथ। त्रेसतुः। त्रेसुः। त्रेसिथ। तत्रसतुः। तत्रसुः। तत्रसिथ।

Siddhanta Kaumudi

Up

index: 6.4.124 sutra: वा जॄभ्रमुत्रसाम्


एषामेत्वाभ्यासलोपौ वा स्तः किति लिटि सेटि थलि च । भ्रेमतुः । बभ्रमतुः । अभ्रमीत् ।{$ {!851 क्षर!} संचलने$} । अक्षारीत् ॥ अथ द्वावनुदात्तेतौ ।{$ {!852 षह!} मर्षणे$} । परिनिविभ्यः - <{SK2275}> इति षत्वम् । परिषहते । सेहे । सहिता । तीषसह - <{SK2340}> इति वा इट् । इडभावे ढत्वधत्वष्टुत्वढलोपाः ॥

Laghu Siddhanta Kaumudi

Up

index: 6.4.124 sutra: वा जॄभ्रमुत्रसाम्


एषां किति लिटि सेटि थलि च एत्वाभ्यासलोपौ वा। त्रेसतुः, तत्रसतुः। त्रेसिथ, तत्रसिथ। त्रसिता॥ {$ {! 5 शो !} तनूकरणे $} ॥

Balamanorama

Up

index: 6.4.124 sutra: वा जॄभ्रमुत्रसाम्


वा जॄभ्रमुत्रसाम् - वा जृभ्रसु । 'अत एकहल्मध्ये' इत्यतो लिटीति,थलि च सेटी॑ति चानुवर्तते । 'ध्वसोरेद्धौ' इत्यत एदिति,गमहने॑त्यतः कितीति च । तदाह — एषामिति । अभ्रमीदिति ।ह्म्यन्ते॑ति न वृद्धिः । अक्षारीदिति ।अतो ल्रान्तस्ये॑ति वृद्धिः । षह । अपराधे सत्यपि कोपाऽनाविष्करणं मर्षमम् । इडभावे इति । सह् — ता इति स्थिते 'हो ढः' इति ढत्वं,झषस्तथो॑रिति तकारस्य धत्वम् । धस्य ष्टुत्वेन ढः । 'ढो ढे लोपः' इति पूर्वस्य ढस्य लोप इत्यर्थः । स ढा इति स्थितम् ।