6-4-123 राधः हिंसायाम् असिद्धवत् अत्र आभात् क्ङिति अभ्यासलोपः च अतः एक हल् मध्ये अनादेशादेः थलि च सेटि
राधो हिंसायामर्थेऽवर्णस्यैकार आदेशो भवति, अभ्यासलोपश्च लिटि क्ङिति परतस्थलि च सेटि। अपरेधतुः, अपरेधुः। अपरेधिथ। हिंसायामिति किम्? रराधतुः, रराधुः। रराधिथ। अत इत्येतदिहोपस्थितं तपरत्वकृतमपास्य कालविशेषमसंभवादवर्णमात्रं प्रतिपादयति। अथ वा <<श्नाभ्यस्तयोरातः>> ६.४.११२ इत्यत आत इत्यनुवर्तत इति व्याख्येयम्। एकहल्मध्ये वा यः स स्थानी भविष्यति॥
एत्वाभ्यासलोपौ स्तः किति लिटि सेटि थलि च । अपरेधतुः । रेधुः । रेधिथ । राद्धा । साध्नोति । साद्धा । असात्सीत् । असाद्धाम् ॥ अथ द्वावनुदात्तेतौ ॥{$ {!1264 अशू!} व्याप्तौ संघाते च$} । अश्नुते ॥
<<राधो हिंसायाम्>> - राधो हिंसायां ।ध्वसो॑रित्यत एदिति, अभ्यासलोप इति चानुवर्तते ।गमहने॑त्यतः कितीति, 'अत एकहल्मध्ये' इत्यतो लिटीति,थलि च सेटी॑ति सूत्रं चानुवर्तते । तदाह — एत्त्वेत्यादिना । अपरेधतुरिति । उपसर्गवशादिह हिंसायां वृत्तिः । अन्यत्र रराधतुः । थल्यपि क्रादिनियमान्निट् । 'उपदेशेऽत्वतः' इत्यत्र तपरकरणादिह नेण्निषेधः । तदाह -रेधिथेति । राद्धेति । 'झषस्तथोः' इति धः ।अशू व्याप्ताविति । ऊदित्तवाद्वेट् । अश्नुते इति । अश्नुवते ।संयोगपूर्वकत्वात्हुश्नुवो॑रिति न यण् ।
अनेकार्थत्वाद्धातूनां राधो हिंसायां वृत्तिः । ननु च नात्रापूर्वमवर्णग्रहणमस्ति, प्रकृतश्च मात्रिकस्तपरकरणात्, तत्कथमवर्णस्थान एत्वं भवतीत्युक्तमत आह - अत इत्येतदिति । अतः इति तावत्स्वरितत्वादुपतिष्ठते, ततपरत्वकृतस्य कालविशेषस्य मात्रात्मकस्यासम्भवात् तमपास्यावर्णमात्रं प्रतिपादयति । अथ वेति । पूर्वत्र त्वत इति विरोध्युपादानादात् इत्यस्यानभिसम्बन्धः । एकहल्मध्ये चेति । अत्र एकहल्मध्ये इत्येव, अतः, आत इति च द्वयमपि नानुवृतम् । एकहल्मध्य इत्यनुवृतेर्यतच्छब्दाध्याहारेण स्थानी लभ्यत इत्यर्थः ॥