तॄफलभजत्रपश्च

6-4-122 तॄफलभजत्रपः च असिद्धवत् अत्र आभात् क्ङिति अभ्यासलोपः च अतः एक हल् मध्ये अनादेशादेः थलि च सेटि

Kashika

Up

index: 6.4.122 sutra: तॄफलभजत्रपश्च


तॄ फल भज त्रप इत्येतेषामङ्गानामत एकारादेशो भवति, अभ्यासलोपश्च लिटि क्ङिति परतः थलि च सेटि। तेरतुः। तेरुः। तेरिथ। फेलतुः। फेलुः। फेलिथ। भेजतुः। भेजुः। भेजिथ। त्रेपे, त्रेपाते, त्रेपिरे। तरतेर्गुणार्थं वचनम्। फलिभजोरादेशाद्यर्थम्। त्रपेरनेकहल्मध्यार्थम्। श्रन्थेश्चेति वक्तव्यम्। श्रेथतुः। श्रेथुः।

Siddhanta Kaumudi

Up

index: 6.4.122 sutra: तॄफलभजत्रपश्च


एषामत एकारोऽभ्यासलोपश्च स्यात्किति लिटि सेटि थलि च । त्रेपे । त्रेपाते । त्रेपिरे । ऊदित्वादिड्वा । त्रपिता । त्रप्ता । त्रपिषीष्ठ । त्रप्सीष्ट ।{$ {!375 कपि!} चलने$} । कम्पते । चकम्पे ।{$ {!376 रबि!} {!377 लबि!} {!378 अबि!} शब्दे$} । ररम्बे । ललम्बे । आनम्बे ।{$ {!379 लबि!} अवस्रंसने च$} ।{$ {!380 कबृ!} वर्णे$} । चकबे ।{$ {!381 क्लीबृ!} अधार्ष्ट्ये$} । चिक्लीबे ।{$ {!382 क्षीबृ!} मदे$} । क्षीबते ।{$ {!383 शीभृ!} कत्थने$} । शीभते ।{$ {!384 चीभृ!} च$} ।{$ {!385 रेभृ!} शब्दे$} । रिरेभे । अभिरभी क्वचित्पठ्यते । अम्भते । रम्भते ।{$ {!386 ष्टभि!} {!387 स्कभि!} प्रतिबन्धे$} । स्तम्भते । उत्तम्भते । उदः स्थास्तम्भोः-<{SK118}> इति पूर्वसवर्णः । विस्तम्भते । स्तन्भेः-<{SK2272}> इति षत्वं तु न भवति । श्नुविधौ निर्दिष्टस्य सौत्रस्यैव तत्र ग्रहणात् । तद्बीजं तु उदः स्थास्तम्भोः-<{SK118}> इति पवर्गीयोपधपाठः, स्तन्भेः <{SK2272}> इति तवर्गीयोपधपाठश्चेति । माधवः । केचिदस्य टकार औपदेशिक इत्याहुः । तन्मते, ष्टम्भते । टष्टम्भे ।{$ {!388 जभि!} {!389 जृभि!} गात्रविनामे$} ॥

Laghu Siddhanta Kaumudi

Up

index: 6.4.122 sutra: तॄफलभजत्रपश्च


एषामत एत्त्वमभ्यासलोपश्च स्यात् किति लिटि सेटि थलि च। त्रेपे। त्रपिता, त्रप्ता। त्रपिष्यते, त्रप्स्यते। त्रपताम्। अत्रपत। त्रपेत। त्रपिषीष्ट, त्रप्सीष्ट। अत्रपिष्ट, अत्रप्त। अत्रपिष्यत, अत्रप्स्यत ॥ इत्यात्मनेपदिनः॥

Balamanorama

Up

index: 6.4.122 sutra: तॄफलभजत्रपश्च


तॄफलभजत्रपश्च - संयुक्तहल्मध्यस्थत्वादेत्त्वाभ्यासलोपयोरप्राप्तावाह — तृफल । 'अत एकहल्मध्ये' इत्यतोऽत इति लिटीति चानवर्तते ।ध्वसो॑रित्यत एदिति, अभ्यासलोपश्चेति च,गमहने॑त्यस्मात्कितीति,थलि च सेटी॑ति सूत्रं च । तदाह — एषामिति । गुणशब्देन भाविताऽकारवत्त्वाद्वरूपादेशादित्वादेकहल्मध्यस्थत्वाऽभावाच्चाऽप्राप्ते विधिरियम् । आन्ब इति । द्विहल्त्वान्नुट् । ष्टभि स्कभीति । आद्यः षोपदेशः,ष्टुत्वेन तकारस्य टकारनिर्देशेन दन्त्यपरकसादित्वात् । ततः षस्य सत्वे ष्टुत्वस्य निवृत्तिः । तदाह -स्तम्भत् इति । नुम्यनुस्वार इति । इदित्त्वान्नुमिनश्चापदान्तस्ये॑ति तस्यानुस्वारः ।नुस्वारस्य ययी॑ति तस्य परसवर्णौ मकारः ।ष्टम्भे॑त्येव पाठे तु प्रतिपदोक्तत्वात्उदः स्थे॑त्यत्राऽस्यैव ग्रहणं स्यादिति भावः । पूर्वसवर्ण इति । सकारस्य थकारः । तस्यखरि चे॑ति चर्त्वे तकार इत्यर्थः । अत्र यद्वक्तव्यं तदुदः स्थास्तम्भोरित्यत्र हल्सन्धौ प्रपञ्चितम् । विस्तम्भत इति ।सात्पदाद्यो॑रिति षत्वनिषेध इति भावः । नन्वेवमपिस्तम्भे॑रिति षत्वं कुतो न स्यादित्यत आह - स्तम्भेरिति षत्वं तु नेति । कुत इत्यत आह — श्नविधाविति ।स्तन्भुस्तुन्बुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्चे॑ति सूत्रे निर्दिष्टस्यैव प्रतिपदोक्तस्य षत्वविधौ ग्रहणादित्यर्थः । नन्वेवं सतिउदः स्थास्तम्भो॑रिति पूर्वसवर्णविधावपि सौत्रस्यैव ग्रहणं स्यादित्यत आह — तद्बीजं त्विति । षत्वविधौ सौत्रस्यैव ग्रहणं, पूर्वसवर्णविधौ तु तदन्यस्यापीत्यत्र प्रमाणमित्यर्थः । ननु पूर्वसवर्णविधौ मोपधस्य, षत्वविधौ तु नोपधस्य पाठ इत्यत्र किं प्रमाणमित्यत आह — इति माधव इति । पाणिनिशिष्यपरम्परैव तत्र प्रमाणमिति भावः । लिटि 'शपूर्वाः खयः' इति षकारस्य निवृत्तौ ष्टुत्वनिवृत्त्या तकारः शिष्यते । तस्तम्भे । टकार औपदेशिक इति । स्वाभाविक एव टकारो नतु ष्टुत्वसंपन्न इत्यर्थः । तन्मते इति । तथा च षकारस्यापि स्वाभाविकत्वात् षत्वविधौ स्तन्भेरेव ग्रहणेऽपि षकारो निर्बाध इति भावः । टष्टम्भ इति । 'शर्पूर्वा' इतिटकार एव शिष्यत इति भावः । जभी जृभि गात्रविनाम इति । गात्रस्य विनामः = वक्रभावः । आद्य इदित् । द्वितीय इदित् । आद्यस्य इदित्त्वंश्वीदितो निष्ठाया॑मिति इण्निषेधार्थम् ।

Padamanjari

Up

index: 6.4.122 sutra: तॄफलभजत्रपश्च


फल निष्पतौ, ञिफला विशरणे - द्वयोरपि ग्रहणम् । गुणाथमिति । न शसददवादिगुणानाम् इति प्रतिषेधं बाधितुमित्यर्थः । श्रेथतुरिति । पूर्वषत्कित्वनलोपौ ॥