तनिपत्योश्छन्दसि

6-4-99 तनि पत्योः छन्दसि असिद्धवत् अत्र आभात् अचि उपधायाः लोपः क्ङिति

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

तनि पति इत्येतयोश्छन्दसि विषय उपधाया लोपो भवत्यजादौ क्ङिति प्रत्यये परतः। वित॑त्निरे क॒वयः॑ (ऋ० १.१६४.५)। श॒कु॒ना इ॑व पप्तिम (ऋ० ९.१०७.२०)। छन्दसीति किम्? वितेनिरे। पेतिम॥

Siddhanta Kaumudi

Up

एतयोरुपधालोपः क्ङिति प्रत्यये । वितत्निरे कवयः (वित॑त्निरे क॒वयः॑) । शकुना इव पप्तिम (शकु॒ना इ॑व पप्तिम) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

वितत्निर इति । लोपविधानसामर्थ्यादसिद्धत्वेऽपि तस्य अत एकहल्मध्ये इत्येत्वाभ्यासलोपौ न भवतः । पप्तिमेति । लिट्, मस्, इट् ॥