ऊदनोर्देशे

6-3-98 ऊदनोः देशे उत्तरपदे अपः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अनोरुत्तरस्याप ऊकारादेशो भवति देशाभिधाने। अनूपो देशः। देश इति किम्? अन्वीपम्। दीर्घोच्चारणमवग्रहार्थम्। अनु ऊपोऽनूप इति॥

Siddhanta Kaumudi

Up

अनोः परस्यापस्य ऊत्स्याद्देशे । अनूपो देशः । राजधुरा । अक्षे तु अक्षधूः । दृढधुरक्षः । सखिपथः । रम्यपथो देशः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<ऊदनोर्देशे>> - ऊदनोर्देशे । ईत्त्वस्याऽपवादः । ऊत्स्यादिति ।आदेः परस्ये॑ति ज्ञेयम् । अनूपो देश इति । अनुकूला आपो यस्मिन्निति विग्रहः । अप्रत्ययः, ऊत्त्वं सवर्णदीर्घश्च । 'अनूप' इत्यत्र ऊपोऽवग्रहणार्थं दीर्घोच्चारणमिति भाष्यम् । बह्वृचास्तुअनूपो गोमान्रित्यत्र नावगृह्णन्ति । तदेव 'ऋक्पूः' इति सूत्रगतोऽप्शब्दः प्रपञ्चितः । अथ धूर्शब्दान्तस्योदाहरति — राजधुरेति । राज्ञो धूरिति विग्रहः । धूर्शब्दोऽत्र राज्ये लाक्षणिकः । अकारप्रत्ययः ।परवल्लिङ्ग॑मिति स्त्रीत्वम् । टाप् । अक्षे त्विति । अक्षसंबन्धिनी या धूस्तदन्तादकारप्रत्ययो न । अक्षधूरिति । अक्षो नाम रथावयवदण्डविशेषः, यदग्रयोश्चक्रे आसज्येते तस्याक्षस्याग्रं धूः । अनेनअक्षे समासार्थे धुरो नाऽकारप्रत्ययः॑ इति व्याख्यानेऽत्र निषेधो न स्यादिति सूचितम् । दृढधूरक्ष इति । दृढा धूर्यस्येति विग्रहः । एतेनाऽक्षे पूर्वपदे धुरो नाकारप्रत्यय इति व्याख्याने अत्र निषेधो न स्यादिति सूचितम् । तदेवंऋक्पू॑रिति सूत्रं धूःशब्दः प्रपञ्चितः । अथ पथिन्शब्दस्योदाहरति — सखिपथाविति । सखा च पन्थाश्चेति द्वन्द्वः । अकारप्रत्ययः । 'नस्तद्धिते' इति टिलोपः । 'सखिपथ' इति पाठे तु सख्युः पन्था इति तत्पुरुषः । रम्यपथ इति । रम्यः पन्था यस्येति विग्रहः ।

Padamanjari

Up

अवग्रहार्थमिति । यत्र समासावयवानां रुपाणि प्रदर्श्यन्ते पदकारैः सः - अवग्रहः ॥