अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशीराशाऽऽस्थाऽऽस्थितोत्सुकोतिकारकरागच्छेषु

6-3-99 अषष्ठ्यतृतीयास्थस्य अन्यस्य दुक् आशीराशास्थास्थितोत्सुकोतिकारकरागच्छेषु उत्तरपदे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अषष्ठीस्थस्य अतृतीयास्थस्य चान्यशब्दस्य दुगागमो भवति आशिस् आशा आस्था आस्थित उत्सुक ऊति कारक राग छ इत्येतेषु परतः। अन्या आशीः अन्यदाशीः। अन्या आशा अन्यदाशा। अन्या आस्था अन्यदास्था। अन्य आस्थितः अन्यदास्थितः। अन्य उत्सुकः अन्यदुत्सुकः। अन्या ऊतिः अन्यदूतिः। अन्यः कारकः अन्यत्कारकः। अन्यो रागः अन्यद्रागः। अन्यस्मिन् भवोऽन्यदीयः। गहादिषु ४.२.१३८ अन्यशब्दो द्रष्टव्यः। अषष्ठ्यतृतीयास्थस्येति किम्? अन्यस्य आशीः अन्याशीः। अन्येन आस्थितः अन्यास्थितः।

दुगागमोऽविशेषेण वक्त व्यः कारकच्छयोः।

षष्ठीतृतीययोर्नेष्ट आशीरादिषु सप्तसु॥

अन्यस्य कारकम् अन्यत्कारकम्। अन्यस्येदम् अन्यदीयम्। अस्य च द्विर्नञ्ग्रहणं लिङ्गम्॥

Siddhanta Kaumudi

Up

अन्यशब्दस्य दुगागमः स्यादाशीरादिषु परेषु । अन्यदाशीः । अन्यदाशा । अन्यदाशा । अन्यदास्था । अन्यदास्थितः । अन्यदुत्सकः । अन्यदूतिः । अन्यद्रागः । अन्यदीयः । अषष्ठीत्यादि किम् । अन्यस्यान्येन वाशीः अन्याशीः ।<!कारके छे च नायं निषेधः !> (वार्तिकम्) ॥ अन्यस्य कारकः, अन्यत्कारः । अन्यस्यायमन्यदीयः । गहादेराकृतिगणत्वाच्छः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशिराशाऽऽस्थाऽऽस्थितोत्सुकोतिकारकरागच्छेषु>> - अषठतृतीयास्थस्य । अषष्ठआमतृतीयायां च परतस्तिष्ठतीति अषष्ठतृतीयास्थः, तस्य । अषष्ठीतृतीयान्तस्येत्यर्थः ।अषष्ठीतृतीयास्थस्ये॑त्येव सिद्धे नञ्द्वयोपादानं स्पष्टार्थंम् । आशीरादिष्विति । आशीः, आशा, आस्था, आस्थित, उत्सुक, ऊति, कारक, राग, छ-इत्येतेषु इत्यर्थः । दुकि ककार इत् । उकार उच्चारणार्थः । कित्त्वादन्तावयवः । अन्यदाशीरित्यादयः कर्मधारयाः । नायं निषेध इति ।अषष्ठतृतीयास्थस्ये॑ति निषेधः कारकच्छयोर्नास्तीत्यर्थः । भाष्योक्तमिदम् ।

Padamanjari

Up