6-3-89 दृग्ददृशवतुषु उत्तरपदे
दृक् दृश वतु इत्येतेषु परतः समानस्य स इत्ययमादेशो भवति। सदृक् । सदृशः। <<त्यदादिषु दृशोऽनालोचने कञ् च>>३.२.६० इत्यत्र <<समानान्ययोश्चेति वक्तव्यम्>> (३.२.६० वा०) इति कञ्क्विनौ प्रत्ययौ क्रियेते॥ दृक्षे चेति वक्तव्यम्॥ सदृक्षः। दृशेः क्सप्रत्ययोऽपि तत्रैव वक्त व्यः (३.२.६० वा०)। वतुग्रहणमुत्तरार्थम्॥
सदृक् । सदृशः ।<!दृक्षे चेति वक्तव्यम् !> (वार्तिकम्) ॥ सदृक्षः । वतुरुत्तरार्थः ॥
<<दृग्दृशवतुषु>> - दृग्दृषवतुषु । 'समानस्य स' इति शेषः । सदृक् सदृश इति । समानो दृश्यते इत्यर्थेसमानाऽन्ययोश्चे॑ति दृशेः क्विन्, कञ् च ।दृक्षेचेति ।समानस्य सत्व॑मिति शेषः । सदृक्ष इति । क्सोऽपि इति दृशेः क्सः । वतुरुत्तरार्थ इति । यत्तदेतेभ्यः परिमाणे वतुपः समानशब्दादसंभवादिति भावः ।
वतुग्रहणमुतरार्थमिति । समानशब्देऽसम्भवात् । दृक्षे चेति । छान्दसमेतदिति केचित् । माष्ये सदृक्षम् त्यिनुदाहृतत्वातस्मिन्पक्षे क्सप्रत्ययोऽपि च्छन्दस्येव ॥