6-3-9 हलदन्तात् सप्तम्याः सञ्ज्ञायाम् अलुक् उत्तरपदे
हलन्ताददन्तात् चोत्तरस्याः सप्तम्याः संज्ञायामलुग् भवति। युधिष्ठिरः। त्वचिसारः। गविष्ठिर इत्यत्र तु <<गवियुधिभ्यां स्थिरः>> ८.३.९५ इत्यत एव वचनादलुक्। अदन्तात् — अरण्येतिलकाः। अरण्येमाषकाः। वनेकिंशुकाः। वनेहरिद्रकाः। वनेबल्वजकाः। पूर्वाह्णेस्फोटकाः। कूपेपिशाचकाः। हलदन्तादिति किम्? नद्यां कुक्कुटिका नदीकुक्कुटिका। भूम्यां पाशाः भूमिपाशाः। संज्ञायामिति किम्? अक्षशौण्डः॥ हृद्द्युभ्यां ङेः॥ हृद् दिव् इत्येताभ्यामुत्तरस्य ङेरलुग् भवति। हृदिस्पृक्। दिविस्पृक्॥
हलन्ताददन्ताच्च सप्तम्या अलुक् संज्ञायाम् । त्वचिसारः ॥
हलन्ताददन्ताच्च सप्तम्या अलुक्। कण्ठेकालः। प्राप्तमुदकं यं स प्राप्तोदको ग्रामः। ऊढरथोऽनड्वान्। उपहृतपशू रुद्रः। उद्धृतौदना स्थाली। पीताम्बरो हरिः। वीरपुरुषको ग्रामः। <<प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः>> (वार्त्तिकम्)। प्रपतितपर्णः, प्रपर्णः। <<नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः>> (वार्त्तिकम्) । अविद्यमानपुत्रः, अपुत्रः॥
<<हलदन्तात् सप्तम्याः संज्ञायाम्>> - हलदन्तात् । त्वचिसार इति । अत एव ज्ञापकाद्व्यधिकरणपदो बहुव्रीहिः ।वंशे त्वक्सारकर्मारत्वचिसारतृणध्वजाः॑ इत्यमरः । अथ हलन्तस्योदाहरणान्तरं वक्ष्यति — युधिष्ठिर इति । अत्रअजिरशिशिसस्थिरे॑त्युणादिसूत्रेण स्थाधातोः किरचि स्थिरशब्दो व्युत्पादितः ।
उदाहरणेषु संज्ञायाम् इति समासः । गविष्ठिर इत्यादि । अन्यथा अन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते इत्यवादेशस्याकरणादहलदन्तत्वान्न स्यात्, यथा - भूम्यां पाशो भूमिपाश इत्यत्रेति भावः । हृद्द्यौभ्यामिति । असंज्ञार्थमिदम् । हृदिस्पृक्, दिविस्पृगिति । द्वितीयार्थे चैषा सप्तमी । तथा हि भाष्यम् - अन्यार्थे चैषा सप्तमी द्रष्टव्या, हृदयं स्पृशतीति हृदिस्पृक्, दिवं स्पृशतीति दिविस्पृक् इति । आख्याग्रहणस्योपसमस्तत्वादिह संज्ञाग्रहणम् । तत्रैव त्वसमास्तमाख्याग्रहणं कर्तव्यम् ॥