कारनाम्नि च प्राचां हलादौ

6-3-10 कारनाम्नि च प्राचां हलादौ अलुक् उत्तरपदे हलदन्तात् सप्तम्याः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

प्राचां देशे यत् कारनाम तत्र हलादावुत्तरपदे हलदन्तादुत्तरस्याः सप्तम्या अलुग् भवति। स्तूपेशाणः। दृषदिमाषकः। हलेद्विपदिका। हलेत्रिपदिका। कारविशेषस्य संज्ञा एताः, तत्र पूर्वेणैव सिद्धे नियमार्थमिदम्। एते च त्रयो नियमविकल्पा अत्रेष्यन्ते — कारनाम्न्येव, प्राचामेव, हलादावेवेति। कारनाम्नीति किम्? अभ्यर्हिते पशुः अभ्यर्हितपशुः। कारादन्यस्यैतद् देयस्य नाम। प्राचामिति किम्? यूथे पशुः यूथपशुः। हलादाविति किम्? अविकट उरणः अविकटोरणः। हलदन्तादित्येव — नद्यां दोहनी नदीदोहनी॥

Siddhanta Kaumudi

Up

प्रचां देशे यत्कारनाम तत्र हलादावुत्तरपदे हलदन्तात्सप्तम्या अलुक् । मुकुटेकार्षापणम् । दृषदिमाषकः । पूर्वेण सिद्धे नियमार्थम् । कारनाम्न्येव, प्राचामेव, हलादावेवेति । कारनाम्नि किम् । अभ्याहितपशुः । कारादन्यस्यैतद्देशस्य नाम । प्राचां किम् । यूथपशुः । हलादौ किम् । अविकटोरणः । हलदन्तात्किम् । नद्यां दोहो नदीदोहः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<कारनाम्नि च प्राचां हलादौ>> - कारनाम्नि । यत्रकारनामेति । राजग्राह्रो भागः करः, स एव कारः, तद्विशेषवाचक इत्यर्थः । नियमार्थमिति ।प्राचां देशे हलादौ यदि भवति कारनाम्न्येव,॑कारनाम्नि हलादौ चेत्प्राचामेव,॑प्राचां कारनाम्नि चेद्धलादावेवे॑ति नियमत्रयार्थमित्यर्थः । अविकटोरण इति । अविशब्दासङ्घाते कटच् । उपणो मेषः । नद्यामिति । नद्युत्तारणे तात्कालिको दोहः-करः ।

Padamanjari

Up

वणिम्भिः पशुपालैः कर्षकैश्च कल्पितो राजग्राह्यए भागः - करः, कर कएव कारः, प्रज्ञादित्वादण् । एनियमविकल्पा इति नियमविशेषा इत्यर्थः । तानेव दर्शयति - कारनाम्न्ये नेत्यादि । प्राचां देशे हलादौ यदि भवति कारनाम्न्येव इति प्रथमो नियमः, अप्राग्देशावर्तिनि तु त्वचिसारादावकारनाम्न्यपि भवत्येव । तथा कारनाम्नि हलादौ यदि भवति प्रचामेव इति द्वितीयः । प्राचां कारनाम्नि च यदि भवति हलादावेव इति तृतीयः । अवीनां समूहोऽविकटम्, सङ्घाते कटच् । कथं पुरेकस्मिन्वाक्ये नियमत्रयं लभ्यते कः पुनराह - एकमिदं वाक्यमिति आगृह्यमाणविशेषत्वेन प्रत्येकमेवकारध्याहारात् त्रीण्येव वाक्यानि । संज्ञाग्रहणेन प्रकृतेऽपि एनामग्रहणं क्रियते नियमार्थत्वं विस्पष्टयितुमन्यथाऽसंज्ञायां विध्यर्थताऽपि समाभाव्येत । कथं पुरसंज्ञायां सप्तमीसमासः एतदेव ज्ञापकं स्यात् - प्रचां कारे हलादिनोतरपदेनासंज्ञायां सप्तमीसमासः एतदेव ज्ञापकं स्यत् - प्रचां क्रे हलादिनोतरपदेनासंज्ञानामपि भवति समास इति । यस्मिन्विधिः इत्येव सिद्धे आदिग्रहणं विस्पष्टार्थम् ॥