6-3-81 अव्ययीभावे च अकाले उत्तरपदे सहस्य सः
index: 6.3.81 sutra: अव्ययीभावे चाकाले
अव्ययीभावे च समासे अकालवाचिनि उत्तरपदे सहस्य स इत्ययमादेशो भवति। सचक्रं धेहि। सधुरं प्राज। अकाले इति किम्? सहपूर्वाह्णम्।
index: 6.3.81 sutra: अव्ययीभावे चाकाले
सहस्य सः स्यादव्ययीभावे न तु काले । सचक्रम् । काले तु सहपूर्वाह्णम् । सदृशः सख्या ससखि । यथार्थत्वेनैव सिद्धे पुनः सादृश्यग्रहणं गुणभूतेऽपि सादृश्ये यथा स्यादित्येवमर्थम् । क्षत्राणां सम्पत्तिः सक्षत्रम् । ऋद्धेराधिक्यं समृद्धिः । अनुरूप आत्मभावः संपत्तिरिति भेदः । तृणमप्यपरित्यज्य सतृणमत्ति । साकल्येनेत्यर्थः । नत्वत्र तृणभक्षणे तात्पर्यम् । अन्ते । अग्निग्रन्थपर्यन्तमधीते साग्नि ॥
index: 6.3.81 sutra: अव्ययीभावे चाकाले
सहस्य सः स्यादव्ययीभावे न तु काले। हरेः सादृश्यं सहरि। ज्येष्ठस्यानुपूर्व्येणेत्यनुज्येष्ठम्। चक्रेणयुगपत् सचक्रम्। सदृशः सख्या ससखि। क्षत्राणां संपत्तिः सक्षत्रम्। तृणमप्यपरित्यज्य सतृणमत्ति। अग्निग्रन्थपर्यन्तमधीते साग्नि॥
index: 6.3.81 sutra: अव्ययीभावे चाकाले
अव्ययीभावे चाकाले - अव्ययीभावे । सहस्य सः स्यादिति ।सहस्य सः संज्ञाया॑मित्यतस्तदनुवृत्तेरिति भावः । न तु काले इति । कालवाचके परे सहस्य सो नेत्यर्थः । सचक्रमिति । चक्रेण युगपत्प्रयुक्तमित्यर्थः । सहपूर्वाह्णमिति । समीपादौ अव्ययीभावः । सूत्रे सादृस्येति स्वार्थे ष्यञ् । तद्ध्वनयन्नाह — सदृशः सख्या ससखीति ।सहे॑त्यव्ययं सदृशार्थकमिति भावः । गुणभूतेऽपीति । वचनग्रहणसामर्थ्येनाऽव्ययार्थप्राधान्य एव समासप्रवृत्तेः गुणीभूतसादृश्येऽप्राप्त्या तद्ग्रहणमिति भावः । क्षत्राणां संपत्तिः सक्षत्रमिति । क्षत्रियाणामनुरूपं कर्मेत्यर्थः । सहेत्यव्ययमत्र संपत्तौ वर्तत इति भावः । संपत्तिसमृद्धिशब्दयोः पौनरूक्त्यं परिहरति-ऋद्धेरिति । धनधान्यादेस्त्यिर्थः । अनुरूप इति । अनुरूपः=योग्यः, आत्मभावः=स्वभावः । स्वोचितं कर्मेति यावत् । तृणमपीति ।परऽवरयोगे चे॑ति क्त्वा । पराऽवरत्वं बौद्धमेव । सहशब्दोऽत्राऽपरिवर्जने वर्तते, न तु तृणसहभावेऽपीति भावः । नन्वेवं सति साकल्ये कथमिदमुदाहरणं स्यादित्यत्र आह — साकल्येनेत्यर्थ इति । पात्रे परिविष्टं सकलं भक्षयतीति यावत् । न त्वत्रेति । तृणभक्षणस्याऽप्रसक्तेरिति भावः । अन्ते इति । 'उदाहरणं वक्ष्यते' इति शेषः । सूत्रेऽन्तशब्देन अन्तावयवसाहित्यं विवक्षितमित्यभिप्रेत्योदाहरति-अग्निग्रन्थपर्यन्तमित्यादि । अग्निशब्देनाऽग्निचयनप्रतिपादको ग्रन्थो विवक्षितः । तेनाऽन्तावयवेन सहितं ग्रन्थमिति विग्रहः । अग्निग्रन्थपर्यन्तमिति बहुव्रीहिः ।ग्रन्थ॑मित्यन्यपदार्थाध्याहारः । अधीत इति तु समासप्रविष्टम् । अन्तावयवेन अग्निग्रन्थेन सहितं वेदकल्पसूत्रादिभागमधीते इत्यर्थः । अत्र कृत्स्नस्यानध्येतव्यत्वादग्निग्रन्थपर्यन्ताध्ययने तत्कार्त्स्न्यानवगमात्साकल्यात्पृथगुक्तिः ।
index: 6.3.81 sutra: अव्ययीभावे चाकाले
अकालवाचिनीति । स्वरुपग्रहणं न भवति , ग्रन्थान्ताधिके च इत्यत्र ग्रन्थग्रहणात्, तद्धि समुहूर्तमित्यादौ यथा स्यादित्येवमर्थम् । यदि यात्र स्वरुपग्रहणं भवति, तदा मुहूर्तादौ निषेधाभावादनेनैव सिद्धत्वादनर्थकं तत्स्यात् । सचक्रमिति । यौगपद्येऽव्ययीभावः । सपुरमिति । ऋक्पूरब्धूः इत्यकारः समासान्तः । सहपूर्वाह्वमिति । साकल्येऽव्ययीभावः ॥