6-3-83 प्रकृत्या आशिषि अगोवत्सहलेषु उत्तरपदे सहस्य
प्रकृत्या सहशब्दो भवत्याशिषि विषयेऽगोवत्सहलेषु। स्वस्ति देवदत्ताय सहपुत्राय सहच्छात्राय सहामात्याय। अगोवत्सहलेष्विति किम्? स्वस्ति भवते सहगवे, सगवे। सहवत्साय, सवत्साय। सहहलाय, सहलाय। <<वोपसर्जनस्य>> ६.३.८२ इति पक्षे भवत्येव सभावः॥
सहशब्दः प्रकृत्या स्यादाशिषि । स्वस्ति राज्ञे सहपुत्राय सहामात्याय ।<!अगोवत्सहलेष्विति वाच्यम् !> (वार्तिकम्) ॥ सगवे । सवत्साय । सहलाय ॥
<<प्रकृत्याऽऽशिष्यगोवत्सहलेषु>> - प्रकृत्याशिषि ।सहस्य सः संज्ञाया॑मित्यतः सहस्येत्यनुवृत्तं प्रथमया विपरिणम्यते । तदाह — सहशब्द इति । प्रकृत्येति । स्वभावेन स्थितः स्यादित्यर्थः । सभावो नेति यावत् । स्वस्तीति ।भूया॑दिति शेषः । सहपुत्रायेति ।तेन सहे॑ति समासे कृते, आसीर्योगान्न सभावः । एवं-सहामात्यायेति । अगोवत्सेति । गोवत्सहलेषु परतः सहस्य प्रकृतिभावो नेत्यर्थः । सगवे इति ।राज्ञे स्वस्ती॑ती शेषः ।
प्रकृत्याशिषि इत्येतावत्सूत्रम्, परिशिष्ट्ंअ भाष्यवार्तिकदर्शनात् सूत्ररुपेण पठितम् । न इति वक्तव्ये प्रकृतिवचनं वैचित्र्यार्थम् ॥