द्वितीये चानुपाख्ये

6-3-80 द्वितीये च अनुपाख्ये उत्तरपदे सहस्य सः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

द्वयोः सहयुक्त योरप्रधानो यः, स द्वितीयः। उपाख्यायते प्रत्यक्षत उपलभ्यते यः, स उपाख्यः, उपाख्यादन्योऽनुपाख्योऽनुमेयः। तस्मिन् द्वितीयेऽनुपाख्ये सहस्य स इत्ययमादेशो भवति। साग्निः कपोतः। सपिशाचा वात्या। सराक्षसीका शाला। अग्न्यादयः साक्षादनुपलभ्यमानाः कपोतादिभिरनुमीयमाना अनुपाख्या भवन्ति॥

Siddhanta Kaumudi

Up

अनुमेये द्वितीये सहस्य सः स्यात् । सराक्षसीका निशा । राक्षसी साक्षादनुपलभ्यमाना निशयाऽनुमीयते ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<द्वितीये चानुपाख्ये>> - द्वितीये चानुपाख्ये । अप्रधानेऽसहाये द्वितीयशब्दो लाक्षणिकः । उपाख्यायते प्रतीयते उपलभ्यते इत्युपाख्यं=प्रत्यक्षम् । तदन्यदनुपाख्यम् । अनुमेयमिति यावत् । तदाह — अनुमेय इति । सहायवाचिन्युत्तरपदे परत इत्यर्थः । सराक्षसीकेति ।तेन सहे॑ति बहुव्रीहिः ।नद्यृतश्चे॑ति कप् । अनुमेयराक्षसीसहिता निशेत्यर्थः । तदाह — राक्षसी साक्षादिति ।

Padamanjari

Up

अप्रधानो यः सः द्वितीय इति । तत्रैव लोके द्वितीयशब्दस्य प्रयोगात्, स्वामिभृत्ययोहि स्वामिनं प्रति भृत्यो द्वितीय इत्युच्यते, न विपर्ययेण । उपाख्यायते इत्यस्य विवरणम् - प्रत्यक्षेणीपलभ्यत इति । घञर्थे एकविधानम् इति कः कर्मणि । साग्निरिति । पूर्ववद्धहुव्रीहिः, इदमपि नित्यार्थं वचनम् । अग्न्यादयः त्याइदिना अनुपाख्यत्वं दर्शयति, कपोतश्चेदगारमुपहन्याततश्च कपोतेनाग्निरनुमीयते । विद्यौद्वात्ययोश्च रक्षः पिशाचं वर्तत इति वार्ता ॥