6-3-79 ग्रन्थान्ताधिके च उत्तरपदे सहस्य सः
ग्रन्थान्तेऽधिके च वर्तमानस्य सहशब्दस्य स इत्ययमादेशो भवति। सकलं ज्यौतिषमधीते। समुहूर्तम्। ससंग्रहं व्याकरणमधीयते। कलान्तं मुहूर्तान्तं संग्रहान्तम् इति अन्तवचने २.१.६ इत्यव्ययीभावः समासः। तत्र <<अव्ययीभावे चाकाले>> ६.३.८१ इति कालवाचिन्युत्तरपदे सभावो न प्राप्नोतीत्ययमारम्भः। अधिके — सद्रोणा खारी। समाषः कार्षापणः। सकाकिरणीको माषः॥
अनयोः परयोः सहस्य सः स्यादुत्तरपदे । समुहूर्तं ज्योतिषमधीते । सद्रोणा खारी ॥
<<ग्रन्थान्ताधिके च>> - ग्रन्थान्ताधिके च । ग्रन्थान्तश्च अधिकश्चेति समाहारद्वन्द्वः । अनयोरर्थयोरिति ।विद्यमानस्ये॑ति शेषः । समुहूर्तमिति । मुहूर्तविधिपरग्रन्थपर्यन्तं ज्योतिःशास्त्रमधीत इत्यर्थः । अन्तवचनेऽव्ययीभावः ।अव्ययीभावे चाऽकाले॑ इत्यत्र कालपर्युदासादप्राप्ते सभावे ग्रन्थान्तग्रहणम् । सद्रोणा खारीति । द्रोणपरिमाणादधिकेत्यर्थः । मयूरव्यंसकादित्वात्सहशब्दस्याधिकवाचिनः समासः, सभावश्च ।
सकलमिति । कला - कालविशेषः, तत्सहचरितो ग्रन्थोऽपि कला । एवं समुहूर्तमित्यत्रापि । ससंग्रहमिति । एततु प्रमादाल्लिखितम्, अत्र हि अव्ययीभावे चाकाले इति वक्ष्यमाणेनैव सिद्धः सभावः । कालवाचिन्युतरपद इति । कालादयः शब्दा यद्यपि तत्सहचरितग्रन्थपराः, तथाप्यधीत इति पदान्तरप्रयोजनसमधिगम्यत्वाद् ग्रन्थपरत्वं बहिरङ्गमिति कालश्रयः प्रतिषेध एव स्यादिति मन्यते । सद्रोणेति । तेन सहेति तुल्ययोगे इति बहुव्रीहिरयम् । तेन वोपसर्जनस्य इति विकल्पे प्राप्ते नित्यार्थं वचनम् ॥