6-3-77 नगः अप्राणिषु अन्यतरस्याम् उत्तरपदे नञः प्रकृत्या
नग इत्यत्राप्राणिष्वन्यतरस्यां नञ् प्रकृत्या भवति। नगा वृक्षाः, अगा वृक्षाः। नगाः पर्वताः, अगाः पर्वताः। न गच्छन्तीति नगाः। गमेर्डप्रत्ययः (प॰ उ॰ १.११४)। अप्राणिष्विति किम्? अगो वृषलः शीतेन॥
नग इत्यत्र नञ्प्रकृत्या वा । नगाः अगाः पर्वताः । अप्राणिषु इति किम् । अगो वृषलः शीतेन । नित्यं क्रीडा <{SK711}> इत्यतो नित्यमित्यनुवर्तमाने ॥