एकादिश्चैकस्य चादुक्

6-3-76 एकादिः च ऐकस्य च दुक् उत्तरपदे नञः प्रकृत्या

Kashika

Up

index: 6.3.76 sutra: एकादिश्चैकस्य चादुक्


एकादिश्च नञ् प्रकृत्या भवति, एकशब्दस्य च आदुकागमो भवति। एकेन न विंशतिः कान्नविंशतिः। एकान्नत्रिंशत्। तृतीया इति योगविभागात् समासः। पूर्वान्तोऽयमादुक् क्रियते पदान्तलक्षणोऽत्र अनुनासिको विकल्पेन यथा स्यातिति।

Siddhanta Kaumudi

Up

index: 6.3.76 sutra: एकादिश्चैकस्य चादुक्


एकादिर्नञ्प्रकृत्या स्यादेकस्य च अदुगागमश्च । नञो विंशत्या सह समासे कृते एकशब्देन सह तृतीयेति योगविभागात्समासः । अनुनासिकविकल्पः । एकेन नविंशतिः एकान्नविंशतिः । एकाद्नविंशतिः । एकोनविंशतिरित्यर्थः ।<!षष उत्त्वं दतृदशधासूत्तरपदादेः ष्टुत्वं च धासु वेति वाच्यम् !> (वार्तिकम्) ॥ षोडन् । षोडश । षोढा । षड्धा ॥

Balamanorama

Up

index: 6.3.76 sutra: एकादिश्चैकस्य चादुक्


एकादिश्चैकस्य चादुक् - एकादिश्च । 'नलोपो नञः' इत्यतो 'नञ' इति षष्ठन्तमनुवर्तते । तच्चप्रथमया विपरिणम्यते । 'नभ्राण्नपात्' इत्यतः प्रकृत्येत्यनुवर्तते । तदाह — एकादिर्नञ्प्रकृत्येति । एक आदिर्यस्येति विग्रहः । एकस्य चादुगागमश्चेति । आदु॑गितिअदु॑गिति वा च्छेदः । नञो विंशत्येति । न विंशतिरिति विग्रहे नञ्समासे सति 'नवंशति' शब्दस्यैकशब्देन तृतीयान्तेन सह एकेन नवंशितिरिति विग्रहे समास इत्यन्वयः । ननु तत्कृतत्वाद्यभावात्कथमिह तृतीयासमास इत्यत आह — योगविभागादिति । अनुनासिकविकल्प इति । तृतीयासमासे कृते सुब्लुकि एक नविंशतिरिति स्थिते 'न लोपो नञः' इति प्राप्तस्य नकारलोपस्य प्रकृतिभान्निवृत्तौ एकशब्दस्याऽऽदुगागमः, तत्र ककार इत्, उकार उच्चारणार्थः । कित्त्वादन्तावयवः, सवर्णदीर्घः, एकाद्-नविंशतिरिति स्थिते 'यरोऽनुनासिके' इति दकारस्य पक्षेऽनुनासिकनकार इत्यर्थः । अदुगागमपक्षेऽपि पररूपं तु अकारोच्चारमसामर्थ्यान्न भवति । एकेन न विंशतिरिति । विग्रहवाक्यम् । एकेन हेतुना विंशतिर्न भवतीत्यर्थः । एकान्नविंशतिः, एकाद्नविंशतिरिति । अनुनासिकत्वे तदभावे च रूपम् । एकोनविंशतिरित्यर्थ इति ।पर्यवस्यती॑ति शेषः । एकेन ऊनेति विग्रहः ।पूर्वसदृशे॑ति समासः । सा चासौ विंशतिश्च ।

Padamanjari

Up

index: 6.3.76 sutra: एकादिश्चैकस्य चादुक्


एकादिरिति बहुव्रीहिः । आदिशब्दो व्यवस्था वचनः । एकान्नविशतिरिति । पूर्वं नञो विशत्यादिभिः समासं कृत्वा पश्चात् तृतीयासमासः कर्तव्यः । किमर्थं पुनः पूर्वान्तोऽयमादुक् क्रियते, न परदिरादुट् क्रियेत, एवमेकस्येत्यागमिनिर्देशार्थं न कर्तव्यं भवति, प्रकृतस्य नञ एवागमित्वात् इत्यत आह - पूर्वान्तश्चायमिति । यरोऽनुनासिकेऽनुनासिको वा इत्यत्र न पदान्ताट्टोरनाम् इत्यतः पदन्तग्रहणमनुवर्तते, अविध्नः, बध्नातीत्येवमादिषु मा भूदिति । परादौ सति दकारः पदान्तो न स्यादिति अनुनासिको न स्यात् । अथानुट् क्रियेत, एवमपि पत्रे दकारश्रवतणं न स्यात् तदिदमुक्तम् - अनुनासिको विकल्पेन यथा स्यादिति । किमर्थं पुरादुक् क्रियते, अदुगेव नोचज्येत, सवर्णदीर्घत्वे तावत् सिद्धम्, अतो गुणे इति पररुपत्वं चाकारोच्चारणसामर्थ्यादेव न भविष्यति, यदि स्याद् दुकमेव विदध्यात् । सवर्णदीर्घत्वं तु यं विधिं प्रत्युपदेशोऽनर्थकः इति न्यायाद्भविष्यति । वृत्तिकारेण तु प्रतिपतिलाघवार्थमादुगयं व्याख्यातः ॥ नगोऽप्राणिप्वन्यतरस्याम् ॥ गमेर्हप्रत्यय इति । डप्रकरणे अन्यत्रापि दृश्यते इति ॥