6-3-75 नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या उत्तरपदे नञः
नभ्राट् नपात् नवेदा नासत्या नमुचि नकुल नख नपुंसक नक्षत्र नक्र नाक इत्येतेषु नञ् प्रकृत्या भवति। न भ्राजत इति नभ्राट्। भ्राजतेः क्विबन्तस्य नञ्समासः। न पातीति नपात्। पातिः शत्रन्तः। न वेत्तीति नवेदाः। वेत्तिरसुन्प्रत्ययान्तः। नासत्याः — सत्सु साधवः सत्याः, न सत्या असत्याः, न असत्या नासत्याः। न मुञ्चतीति नमुचिः। मुचेरौणादिकः किप्रत्ययः। नास्य कुलमस्ति नकुलः। नख — नास्य खमस्तीति नखम्। नपुंसक — न स्त्री न पुमान्नपुंसकम्। स्त्रीपुंसयोः पुंसकभावो निपात्यते। नक्षत्र — न क्षरति क्षीयत इति वा नक्षत्रम्। क्षियः क्षरतेर्वा क्षत्रमिति निपात्यते। नक्र — न क्रामतीति नक्रः। क्रमेर्डप्रत्ययो निपातनात्। नाक — नास्मिन् अकमस्तीति नाकम्॥
पाद् शत्रन्तः । वेदाः इत्यसुन्नन्तः । न सत्या असत्याः । न असत्या नासत्याः । न मुञ्चतीति नमुचिः । न कुलमस्य नकुलम् । न खमस्य नखम् । नस्त्रीपुमान् नपुंसकम् । स्त्रीपुंसयोः पुंसकभावो निपातनात् । न क्षरतीति नक्षत्रम् । क्षरतेः क्षीयतेर्वा क्षत्रमिति निपात्यते । न क्रामतीति नक्रः । क्रमेर्डः । न अकस्मिन्निति नाकः ॥
<<नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनख- नपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या>> - नभ्राण्नपात् । सुगमम् । अनुवर्तमान इति ।समासविधयो वक्ष्यन्ते॑ इति शेषः ।
नभ्राडिति । भ्राजभास इत्यादिना क्विप्, व्रश्चादिषत्वम्, जश्त्वम् - डकारः, तस्य वावसाने इति पक्षे एचर्त्वम् - टकारः । पादिति शात्रन्तमिति । तनूनपादुच्यते, अपान्नपादित्यादावनपुंसकेऽपि दर्शनाद् उभे वनस्पत्यादिषु इत्यत्र पातेः क्विपि निपातनातुगित्यभिधानाच्चापाठोऽयम् ।पादिति क्विबन्तमिति पाठः । शत्रन्तमित्यस्य वानन्तर नरैर्न मन्तव्यमित्यध्याहार्यम् । औणादिकः किप्रत्यय इति । इगुपधात्किः इत्यनेन । कम् - सुखम्, अकम् - दुःखम्, तद्यत्र नास्ति स नाकः स्वर्गः । दुःखेन यन्न सम्भन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं च सुखं स्वर्गपदास्पदम् ॥