6-3-74 तस्मात् नुट् अचि उत्तरपदे नञः
index: 6.3.74 sutra: तस्मान्नुडचि
तस्माल् लुप्तनकारान् नञः नुडागमो भवति अजादवुत्तरपदे। अनजः। अनश्वः। तस्मातिति किम्? नञ एव हि स्यात्। पूर्वान्ते हि ङमो ह्रस्वादचि ङ्मुण् नित्यम् 8.3.32 इति प्राप्नोति।
index: 6.3.74 sutra: तस्मान्नुडचि
लुप्तनकारन्नञ उत्तरपदस्याजादेर्नुडागमः स्यात् । अनश्वः । अर्थाभावे अव्ययीभावेन सहायं विकल्पते । रक्षोहागमलघ्वसंदेहाः प्रयोजनम् इति, ।<!अद्रुतायामसंहितम् इति च भाष्यवार्तिकप्रयोगात् !> (वार्तिकम्) ॥ तेनानुपलब्धिरविवादोऽविघ्नमित्यादि सिद्धम् ।<!नञो नलोपस्तिङि क्षेपे !> (वार्तिकम्) ॥ अपचसि त्वं जाल्म ॥ नैकधेत्यादौ तु न शब्देन सह सूपा <{SK649}> इति समासः ॥
index: 6.3.74 sutra: तस्मान्नुडचि
लुप्तनकारान्नञ उत्तरपदस्याजादेर्नुडागमः स्यात्। अनश्वः। नैकधेत्यादौ तु नशब्देन सह सुप्सुपेति समासः॥
index: 6.3.74 sutra: तस्मान्नुडचि
तस्मान्नुडचि - तस्मान्नुडचि । तच्छब्देन पूर्वसूत्रावगतो लुप्तनकारो नञ् परामृश्यते । उत्तरपद इत्यनुवृत्तमचीत्यनेन विशेष्यते । तदादिविधिः ।उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् परत्वा॑दिति परिभाषया सप्तमी षष्ठी प्रकल्पयति । तदाह — लुप्तनकारादिति । अनआ इति । समासे सति नञो नकारस्य लोपे तत्परिशिष्टाऽकारस्य नुट् । टकार इत् । उकार उच्चारणार्थः । टित्त्वादाद्यवयव इति भावः । नुक्तु न कृतः, ङमुट्प्रसङ्गात् । ननुउत्तरे कर्मण्यविघ्नमस्तु॑ इत्यादौ विघ्नानामभाव इत्यर्थे नञ्तत्पुरुषे सति परवल्लिङ्गत्वेऽविघ्न इति स्यात् । नच अर्थाभावेऽव्ययीभावेन तत्सिद्धिरिति वाच्यम्, अव्ययीभावस्य निरमक्षिकमित्यादौ सावकाशतया परत्वात्तत्पुरुषस्यैव प्रसङ्गादित्यत आह — अर्थाऽभावे इति । रक्षेति । पस्पशाह्निकभाष्ये इदं वाक्यम् । रक्षा च ऊहश्च आगमश्चलघु च असन्देहश्चेति द्वन्द्वः ।परवल्लिङ्ग॑मिति पुंस्त्वम् । अत्र सन्देहाऽभाव इत्यर्थेऽसन्देहशब्दस्य असन्देहा इति प्रयोगात्तत्पुरुषो विज्ञायते । अव्ययीभावेरक्षोहागमलघ्वसन्देह॑मिति स्यात् । अद्रुतायामसंहितमिति ।परः सन्निकर्षः संहिते॑सूत्रे पठितमिदं वार्तिकम् । अद्रुतायां वृत्तौ स#ंहिताऽभाव इत्यर्थः । अत्र अव्ययीभावे सति असंहितमिति प्रयोगादव्ययीभावेऽपि अर्थाऽभावो नञा गम्यो भवतीति विज्ञायते । अन्यथा तत्पुरुषे सति परवल्लिङ्गत्वादसंहितेति स्यात् । ततश्च नञा गम्येऽभावे तत्पुरुषाऽव्ययीभावयोर्विकल्प इति स्थितम् । तेनेति । अनुपलब्धिरित्यत्र,अविवाद इत्यत्र च तत्पुरुषः, अविघ्नमित्यत्र अव्ययीभावश्च सिध्यतीत्यर्थः । शब्देन्दुशेखरे त्वन्यथा प्रपञ्चितम् । नञो नलोपस्तिङि क्षेपे इति । 'न लोपो नञः' इति सूत्रस्थवार्तिकमिदम् । नञो नकारस्य लोपः स्यात्तिङि परे निन्दायामिति वक्तव्यमित्यर्थः । अपचसि त्वं जाल्मेति । कुत्सितं पचसीत्यर्थः । अत्र अ इति भिन्नं पदं तिङन्तेन समासाऽभावात् । वार्तिकमिदं प्रसङ्गादुपन्यस्तम् । नञ्समानार्थकेन 'अ' इत्यव्ययेनापि सिद्धमिदमिति वार्तिकं विफलमेव । केचित्तु अस्मादेव वार्तिकादव्ययेषु 'अ' इत्यस्य पाठोऽप्रामाणिक इत्याहुः । ननु नैकधेत्यत्रापि नञ्समासे 'न लोपो नञः' इति नकारस्य लोपेतस्मान्नुडची॑ति नुटि अनेकधेत्येव स्यादित्यत आह — नैकधेत्यादौ त्विति । एतदर्थमेवन॑ञिति सूत्रे, 'न लोपो नञः' इति सूत्रे च ञकारानुबन्दग्रहणमिति भावः ।
index: 6.3.74 sutra: तस्मान्नुडचि
नञ तएव हि स्यादिति । तस्मिन्नति निर्द्दिष्टे पूर्वस्य इति वचनात् । नञश्च नुटि सत्यनिष्ट्ंअ रुपं स्यात्, नलोपविधानमनजाद्यर्थं स्यात् तस्माद्ग्रहणे तु सति पञ्चमीनिर्देशस्य बलीयस्त्वादुतरस्यैव भवति । ननु यदि तत्रैव स्यान्नाचीति नलोपमेव प्रतिषेधेत् । तद्वचनं तूत्रपदस्यैव भविष्यति । तस्मादेवं कक्तव्यम् - नाप्राप्ते नलोपे आरभ्यमाणो नुट् तस्य बाधकः स्यात्, तस्माद्ग्रहणे तु सति निमितमेव नुटो नलोपो भवति । अय नुगिति पूर्वान्त एवायं कस्मान्न कृतः, एवं हि नञ एव स्यादित्यवमपि दोषो न भविष्यति, तत्रायमप्यर्थः - तदोः सः सौ इत्यत्र तदोः इत्यपनीय तोः इति वर्गग्रहणमेव कर्तव्यम् परादौ ह्यनेष करोतीत्यत्र नुटो नकारस्यापि प्रसङ्गादशक्यं वर्गग्रहणम् तत्राह - पूर्वान्ते हीति । ङ्मुट् प्राप्नोतीति । नलोपः प्रतिपदिकान्तस्य इति नलोपो विधानसामर्थ्यान्न भवतीति भावः । अत्रापि पक्षे इदं कर्तव्यम् - नाप्राप्ते नलोपे आरभ्यमाणो नुक् तस्य बाधकः स्यादिति ॥