नलोपो नञः

6-3-73 नलोपः नञः उत्तरपदे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

नञो नकारस्य लोपो भवत्युत्तरपदे। अब्राह्मणः। अवृषलः। असुरापः। असोमपः॥ नञो नलोपोऽवक्षेपे तिङ्युपसंख्यानम्॥ अपचसि त्वं जाल्म। अकरोषि त्वं जाल्म॥

Siddhanta Kaumudi

Up

नञो नस्य लोपः स्यादुत्तरपदे । न ब्राह्मणः, अब्राह्मणः ॥

Laghu Siddhanta Kaumudi

Up

नञो नस्य लोप उत्तरपदे। न ब्राह्मणः अब्राह्मणः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<नलोपः नञः>> - न लोपो नञः । नेति लुप्तषष्ठीकं पदं । तदाह — नञो नस्येति । उत्तरपदे इति । 'अलुगुत्तरपदे' इत्यतस्तदनुवृत्तेरिति भावः ।नञोऽ॑शिति सिद्धे लोपवचनम्-॒अकब्राआहृण॑ इति साकचङ्कार्थमित्याहुः । अब्राआहृण इति । अत्रारोपितत्वं नञर्थः । आरोपितत्वं च ब्राआहृणत्वद्वारा ब्राआहृणे अन्वेति । आरोपितब्राआहृणत्ववानिति बोधः । अर्थाद्ब्राआहृणभिन्न इति पर्यवस्यति । केचित्तु नञ् भिन्नवाची, ब्राआहृणाद्भिन्न इत्यर्थ इत्याहुः । तदयुक्तं, ब्राआहृणाद्भिन्न इत्यर्थे पूर्वपदार्थप्राधान्यापत्तेः । तथाचउत्तरपदार्थप्रधानस्तत्पुरुष॑ इति भाष्योद्धोषो विरुध्येत । किंच-अते, अतस्मै, अतस्मादित्यादौ सर्वनामकार्यं शीभावस्मायादिकं न स्यात्, तच्छब्दार्थस्य नञर्थं प्रति विशेषणत्वेऽप्रधानत्वात्,संज्ञोपसर्जनीभूतास्तु न सर्वादयः॑ इत्युक्तेः । तथा 'अस' इत्यादौतदोः सः सावनन्त्ययोः॑ इति सर्वाद्यन्तर्गतत्यदादिकार्यं सत्वं च न स्यात् ।अनेक॑मित्यत्र एकवचनानुपपत्तिश्च । एकभिन्नस्य एकत्वाऽसंभवेन द्वित्वबहुत्वनियमेन च द्विबहुवचनापत्तेः तथा सति 'अनेकमन्यपदार्थे' इति नोपपद्येत । 'एतत्तदोः सुलोपः' इत्यत्र अनञ्समासग्रहणं चात्र लिङ्गम् । तद्धिअसः शिवः॑, 'अनेषः शिव' इत्यादौ सुलोपाऽभावार्थम् । तद्भिन्न एतद्भिन्न इत्यर्थे तु तच्छब्दाद्यर्थस्य उपसर्जनतया त्यदाद्यत्वानापत्तौ हल्ङ्यादिलोपस्य दुर्वारत्वात्तद्वैयथ्र्यं स्पष्टमेव । तस्मादुत्तरपदार्थप्राधान्यं भाष्योक्तमनुसृत्य आरोपितत्वमेव नञर्थ इति युक्तम् । विसत्रस्तु प्रौढमनोरयायां शब्दरत्ने मञ्जूषायां च ज्ञेयः । प्राचीनास्तुतत्सादृश्यमभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्तिताः ।॑ इति पठित्वा-अब्राआहृणः, अपापम् , अनआः, अनुदरा कन्या, अपशवो वा अन्ये गोअओभ्यः, अधर्मं इत्युदाजहः । तत्र सादृश्यादिकं प्रकरणादिगम्यमित्याहुः ।

Padamanjari

Up

नञः सानुबन्धवस्य ग्रहणम्, पामादिभ्यो नः - पामनपुत्र इत्यादौ मा भूत् । अथ क्रियमाणेऽपि सानुबन्धकग्रहणे स्त्रैणपुत्र इत्यत्र कस्मान्न भवति प्रत्यञित्वस्य वृद्धिस्वरयोश्चरितार्थत्वात्, निपातञित्वस्य चाचरितार्थत्वात्, पूर्वपदेन वा नञ् विशेष्यत इति अपूर्वपदत्वान्न भविष्यति । एवं च कृत्वाऽनुबन्धोच्चारममपि न कर्तव्यम्, अपूर्वपदत्वादेव पामनपुत्रे न भविष्यति । अवक्षेपे तिङीति । अवक्षेपः - निन्दा । नञोऽशिति वा नञोऽनिति वा सिद्धे लोपवचनं साकच्कार्थमित्याहुः ॥