रात्रेः कृति विभाषा

6-3-72 रात्रेः कृति विभाषा उत्तरपदे मुम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

रात्रेः कृदन्त उत्तरपदे विभाषा मुमागमो भवति। रात्रिंचरः, रात्रिचरः। रात्रिमटः, रात्र्यटः। अप्राप्तविभाषेयम्। खिति हि नित्यं मुम् भवति। रात्रिंमन्यः॥

Siddhanta Kaumudi

Up

रात्रिञ्चरः । रात्रिचरः । रात्रिमटः । रात्र्यटः । अखिदर्थमिदं सूत्रम् । खिति तु अरुर्द्विषत्- <{SK2942}> इति नित्यमेव वक्ष्यते । रात्रिम्मन्यः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<रात्रेः कृति विभाषा>> - रात्रेः कृति । अस्य उत्तरपदाधिकारस्थत्वेनप्रत्ययग्रहणे तदन्तग्रहण॑मिति तु इह न भवति । कृतः धातुप्रकृतिकत्वेन रात्रेः कृतोऽसंभवात्तदन्तविधिरित्यभिप्रेत्य आह — कृदन्ते परे इति । रात्रेर्मुम्वा स्यादित्यर्थः । रात्रिञ्चरः, रात्रिचर इति । सुप्युपपदे चरेष्टः, उपपदसमासः, सुब्लुकि पक्षे मुम् । रात्रिमटः रात्र्यट इति । सुप्युपपदे मूलविभुजादित्वात्कः । उपपदसमासः, सुब्लुकि पक्षे मुम् । रात्रिमटः रात्र्यट इति । सुप्युपपदे मूलविभुजादित्वात्कः । उपपदसमासः । सुब्लुक् पक्षे मुम् । ननु ननु 'रात्रिम्मन्यः' इत्यत्रापि मुम्विकल्पः स्यादित्यत आह — अखिदर्थमिति । खिति त्विति । खिति तु इमं मुम्विकल्पं बाधित्वा पूर्वविप्रतिषेधेनअरुर्द्विषदजन्तस्ये॑ति नित्यमेव मुमो विधानं कृदधिकारे वक्ष्यत इत्यर्थः । रातिरम्मन्य इति ।आत्ममाने खश्चे॑ति खश् । खशः शित्त्वेन सार्वधातुकत्वात्तस्मिन्परे 'दिवादिभ्यः श्यन्' इति श्यनि खित्त्वान्नित्यआत्ममाने खश्चे॑ति खश् ।खशः शित्त्वेन सार्वधातुकत्वात्तस्मिन्परे 'दिवादिभ्यः श्यन्' इति श्यनि खित्त्वान्नित्यं मुमिति भावः ।

Padamanjari

Up

कृदन्त उतरपद इति । यद्यप्याचारक्विबन्तस्य रात्रिशब्दस्यानन्तरस्तृजादिः कृत्सम्भवति, तथापि तस्य गौणार्थत्वादग्रहणमिति सामर्थ्यादुतरपदाधिकारेऽप्यत्र तदन्तविधिर्भवति । रात्रिष्चर इति । रात्रौ चरतीति चरेष्टः । राश्रिमट इति । अटतीत्यटः, पचाद्यच्, साधनं कृतेति समासः । अप्राप्तविमाषेयमिति । ननु चोभयत्रविभाषेयं युक्ता, रात्रिम्मन्येत्यादाê खिदन्ते प्राप्ते, अन्यत्राप्राप्ते इत्यत आह - खिति हि नित्यं मुम् भवतीति । पूर्वविप्रतिषेधेनेति भावः ॥