वाचंयमपुरंदरौ च

6-3-69 वाचंयम् अपुरन्दरौ च उत्तरपदे खिति मुम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

वाचंयम पुरंदर इत्येतौ निपात्येते। वाचंयम आस्ते। पुरं दारयतीति पुरंदरः॥

Siddhanta Kaumudi

Up

वाक्पुरोरमन्तत्वं निपात्यते । वाचंयमो मौनव्रती । व्रते किम् । अशक्त्यादिना वाचं यच्छतीति वाग्यामः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<वाचंयमपुरंदरौ च>> - वाचं यमपुरन्दरौ च । वाक्पुरोरिति । वाच्यं यच्छतीति, पुरं दारयतीति च विग्रहे यमेर्दारेश्च खच् । सुपो लुकि वाच् यम, दार इति स्थिते वाक्पुरोरमन्तत्वं निपात्यते इत्यर्थ- । 'अरुर्द्विषजन्तस्य' इति मुमस्तु न प्रसक्तिः ।

Padamanjari

Up

वाचंयम इति । वाचि यमो व्रते इति खच् । पुरंदर इति । पूःसर्वयोर्दारिसहोः इति खचि ह्रस्वः । उभयस्यापि पूर्वपदस्यामन्तत्वं निपात्यते ॥