कारे सत्यागदस्य

6-3-70 कारे सत्यागदस्य उत्तरपदे मुम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कारशब्द उत्तरपदे सत्य अगद इत्येतयोर्मुमागमो भवति। सत्यं करोतीति, सत्यस्य वा कारः सत्यंकारः। एवमगदंकारः॥ अस्तुसत्यागदस्य कार इति वक्तव्यम्॥ अस्तुंकारः॥ भक्षस्य छन्दसि कारे मुम् वक्त व्यः॥ भक्षं करोतीति, भक्षस्य वा कारो भ॒क्षं॒का॒रः॑ (मै०सं० ४.७.३)। छन्दसीति किम्? भक्षकारः॥ धेनोर्भव्यायां मुम् वक्त व्यः॥ धे॑नुं॒भ॑व्या॒ (मै०सं० ४.४.८)॥ लोकस्य पृणे मुम् वक्तव्यः॥ लोकंपृ॒णा (तै० सं० ५.७.५.६)॥ इत्येऽनभ्याशस्य मुम् वक्तव्यः॥ अनभ्याशमित्यः॥ भ्राष्ट्राग्न्योरिन्धे मुम् वक्त व्यः॥ भ्राष्ट्रमिन्धः। अग्निमि॒न्धः(ऋ० १.१६२.५)॥ गिलेऽगिलस्य मुम् वक्त व्यः॥ तिमिङ्गिलः। अगिलस्येति किम्? गिलगिलः॥ गिलगिले चेति वक्तव्यम्॥ तिमिङ्गिलगिलः॥ उष्णभद्रयोः करणे मुम् वक्तव्यः॥ उष्णंकरणम्। भद्रंकरणम्॥ सूतोग्रराजभोजमेर्वित्येतेभ्य उत्तरस्य दुहितृशब्दस्य पुत्रडादेशो वा वक्तव्यः॥ सूतपुत्री, सूतदुहिता। उग्रपुत्री, उग्रदुहिता। राजपुत्री, राजदुहिता। भोजपुत्री, भोजदुहिता। मेरुपुत्री, मेरुदुहिता। केचित् तु शार्ङ्गरवादिषु पुत्रशब्दं पठन्ति, तेषां पुत्रीति भवति। अन्यत्रापि हि दृश्यते। शैलपुत्रीति॥

Siddhanta Kaumudi

Up

मुम् स्यात् । सत्यङ्कारः । अगदङ्कारः ।<!अस्तोश्चेति वक्तव्यम् !> (वार्तिकम्) ॥ अस्तुङ्कारः ।<!धेनोर्भव्यायाम् !> (वार्तिकम्) ॥ धेनुम्भव्या ।<!लोकस्य पृणे !> (वार्तिकम्) ॥ लोकम्पृणः । पुणः इति मूलविभुजादित्वात्कः ।<!इत्येऽनभ्याशस्य !> (वार्तिकम्) ॥ अनभ्याशमित्यः । दूरतः परिहर्तव्य इत्यर्थः ।<!भ्राष्ट्राग्न्योरिन्धे !> (वार्तिकम्) ॥ भ्राष्टमिन्धः । अग्निमिन्धः ।<!गिलेऽगिलस्य !> (वार्तिकम्) ॥ तिमिङ्गिलः । अगिलस्य किम् । गिलगिलः ।<!गिलगिले च !> (वार्तिकम्) ॥ तिमिङ्गिलगिलः ।<!उष्णभद्रयोः करणे !> (वार्तिकम्) ॥ उष्णङ्करणम् । भद्रङ्करणम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<कारे सत्यागदस्य>> - कारे सत्यागदस्य । शेषपूरणेन सूत्रंव्याचष्टे-मुम्स्यादिति ।अरुर्द्विष॑दित्यतस्तदनुवृत्तेरिति भावः । सत्यस्य अगदस्य च कारे परे मुम्स्यादिति फलितम् । मुमि मकार इत् । उकार उच्चारणार्थः । मित्त्वादन्त्यादचः परः । सत्यङ्कार इति । भावे घञ् । सत्यस्य कार इति विग्रहः । शपथकरणमित्यर्थः । अगजङ्कार इति । गदो-रोगः, तस्याऽभावऋ-अगदः । अर्थाभावे अव्ययीभावेन सह तत्पुरुषस्य विकल्पोक्तेः । अगदस्य कार इत्यर्थः । अस्तोश्चेति ।कारे मु॑मिति शेषः । अस्तुङ्कार इति । अस्त्विति तिङन्तप्रतिरूपकमव्ययमभ्युपगमे वर्तते । धेनोरिति । 'मुम्वक्तव्य' इति शेषः । धेनुभव्येति । नवप्रसवात्प्रागियमुक्तिः । भविष्यन्ती धेनुरित्यर्थः ।भव्यदेये॑ति कर्तरि निपातनात्कृत्यप्रत्ययः । धेनुश्चासौ भव्याचेति विग्रहः । मयूरव्यंसकादित्वाद्भव्याशब्दस्य परनिपातः । लोकस्य पृणे इति । 'मुम्वक्तव्य' इति शेषः । ननु लोकं पृणतीति विग्रहे कर्मण्यणि लधूपधगुणे रपरत्वे 'पर्ण' इति स्यादित्यत आह — मूलाविभुजादित्वात्क इति ।इत्येऽनभ्याशस्येति । 'मुम्वक्तव्य' इति शेषः । अनभ्याशमित्य इति । अभ्याशः — समीपम्, अनभ्याशं-दूरं । द्वितीयान्तमिदम् । इण्धातोः प्रापणार्थकात्एतिस्तुशा॑सित्यादिना क्यप्,गम्यादीनामुपङ्ख्यान॑मिति द्वितीयासमासः । सुब्लुकि मुम् । दूरं प्रापयितव्यः, नतु समीपमित्यर्थं मनसि निधायाह — दूरतः परिहर्तव्य इति । भ्राष्ट्राग्न्योरिन्धे इति । 'मुम्वक्तव्य' इति शेषः । भ्राष्ट्रमिन्ध इति । भ्राष्ट्रं-धानादिभर्जनार्गं पात्रम्, तत् इन्द्धे=तापयतीति भ्राष्ट्रमिन्धः । कर्मण्यणि उपपदसमासः । सुब्लुकि, मुम् । अग्निमिन्झ इति । अग्न प्रज्वलयतीत्यर्थः । गिलेऽगिलेस्येति ।अगिलस्ये॑ति च्छेदः । गिले परे गिलभिन्नस्य मुम्वाच्य इत्यर्थः । तिमिङ्गिल इति ।गृ निगरणे॑ । तिमिः — मत्स्यविशेषः । तं गिलतीति मूलविभुजादित्वात्कः । 'ॠत इद्धातोः' इति रपरत्वेअचि विभाषे॑ति लत्वम्, उपपदसमासः । सुब्लुकि मुम् । गिलगिल इति । अयमपि मत्स्य विशेषः । गिलगिले चेति । अगिलस्य मुम् वाच्य इत्यर्थः । तिमिङ्गिलगिल इति । गिलं गिलतीति । गिलगिलः, तिमीनां गिलगिल इति विग्रहः । संबन्धसामान्ये षष्ठी । तिमिषु गिलगिल इति निर्धारणसप्तमी वा ।संज्ञाया॑मिति सप्तमीसमासः । उष्णभद्रयोः करणे इति । मुम्वाच्य इत्यर्थः । उष्णङ्करणं, भद्रङ्करणमिति षष्ठीसमासः ।

Padamanjari

Up

सत्यङ्कारः - समयकरणम् । अशपथऽपि परत्वाद् डाचं बाधित्वा कारे मुमेव भवति, ताअगदङ्कारः - विषप्रतिपक्षद्रव्यविषेषकरणम् । मक्षङ्कारः - यागविशेषे द्रव्यभक्षण्स्य करणम् । भक्षङ्करेतीति वा भक्षङ्कारः, कर्मण्यण् । धेनुम्भव्येति । भविष्यन्ती धेनुरुच्यते, भव्यगेय इति यत्कर्तरि । लोकमपृणेति । पृणोतिः पूरणकर्मा, मूलविभुजादित्वात्कः । अनभ्याशामित्य इति । एतिस्तुशासु इत्यादिना क्यप् - एतव्यम्, थैत्यम् । अनभ्याशम् - दूरम्, एतानभ्याशामित्यः , दूरतः परिहर्तव्य उच्यते । भ्राष्ट्रमिन्धः, अग्निमिन्ध इति । कर्मण्यण्, घञन्तेन वा षष्ठीसमासः । तिमिङ्गिल इति । मत्स्यविशेषः । तिमिङ्गिलतीति पूर्ववत्कः, इत्वम् । अचि विभाषा इति लत्वम् । तिमिङ्गिलगिलः । अयमपि मत्स्यविशेष एव । गिलगिले चेति । यदा गिलं गिलतीति गिलगिलः तिमिङ्गिलगिल इति व्युत्पत्तिस्तदेदमुपसंख्यानम् । यदा हि तिमिङ्गिलं गिलतीति तिमिङ्गिलगिल इति व्युत्पाद्यते, तदा नार्थ एतेन । उष्णङ्करणम्, भद्रङ्करणमिति । षष्ठीसमासौ । पुत्रड्वेति । दकारो ङीबर्थः । केचित्वित्यादि । तेषां पक्ष उपसंख्यानमिदं नारब्धव्यम् । अन्यत्रापि हीत्यादिना शार्ङ्गरवादिपाठमेव द्रढयति । अन्ये तु शार्ङ्गरवादिपाठ्ंअ नेच्छन्ति ॥