6-3-68 इचः एकाचः अम् प्रत्ययवत् च उत्तरपदे खिति मुम्
index: 6.3.68 sutra: इच एकाचोऽम्प्रत्ययवच्च
इजन्तस्य एकाचः खिदन्ते उत्तरपदे अमागमो भवति, अम्प्रत्ययवच् च द्वितीयैकवचनवच् च स भवति। अम् इति हि द्विरावर्तते। गाम्मन्यः। स्त्रीम्मन्यः, स्त्रियम्मन्यः। श्रियम्मन्यः। भ्रुवम्मन्यः। अम्प्रत्ययवच् च इत्यतिदेशातात्वपूर्वसवर्णगुणेयङुवङादेशा भवन्ति। इचः इति किम्? त्वङमन्यः। एकाचः इति किम्? लेखाभ्रुम्मन्याः। अथेह कथं भवितव्यम्, श्रियमात्मानं ब्राह्मणकुलं मन्यते इत्युपक्रम्य श्रिमन्यम् इति भवितव्यम् इति भाष्ये व्यवस्थितम्? तत्र इदं भाष्यकारस्य दर्शनम्, अत्र विषये परित्यक्तस्वलिङ्गः श्रीशब्दो ब्राह्मणकुले वर्तते, यथा प्रष्ठादयः स्त्रियाम्। तत्र स्वमोर्नपुंसकात् 7.1.23 इत्यमो लुग् भवति।
index: 6.3.68 sutra: इच एकाचोऽम्प्रत्ययवच्च
इजन्तादेकाचोऽम् स्यात्स च स्वाद्यम्वत्खिदन्ते परे । औतोऽम्शसोः <{SK285}> । गांमन्यः । वाम्शसोः <{SK302}> । स्त्रियंमन्यः । स्त्रींमन्यः । नृ । नरंमन्यः । भुवंमन्यः । श्रियमात्मानं मन्यते श्रिमन्यं कुलम् । भाष्यकारवचनात् श्रीशब्दस्य ह्रस्वो मुममोरभावश्च ॥
index: 6.3.68 sutra: इच एकाचोऽम्प्रत्ययवच्च
इच एकाचोऽम्प्रत्ययवच्च - इच एकाचः । एकाच अमिति छेदः । अम् च अम् चेत्येकशेषः । एकं विदेयसमर्पकम् ।इच एकाचो॑ऽमिति प्रथमं वाक्यम् । इच इत्येकाचेति च पञ्चमी । 'अलुगुत्तरपदे' इत्युत्तरपदाधिकारादाक्षिप्तं पूर्वपदमिचा विशेष्यते । तदन्तविधिः । तदाह — इज्नतादेकाचोऽम्स्यादिति । मुमोऽपवादः । द्वितीयमम्पदंप्रत्ययव॑दित्येकदेशेन प्रत्ययेन समानाधिकरमं संबध्यते । असामत्र्येऽपि वतिप्रत्यय आर्षः ।अम्प्रत्ययव॑दिति द्वितीयं वाक्यं संपद्यते । स्वादिप्रत्ययेषु यद्द्वितीयैकवचनं तदेवाऽत्र अमिति विवक्ष्यते, व्याख्यानात् । तदाह — स च स्वाद्यम्वदिति । एतत्सर्वं भाष्ये स्पष्टम् । खिदन्ते पर इति । खिदन्ते उत्तरपदे परत इत्यर्थः ।खित्यनव्ययस्ये॑त्यतः खितीत्यनुवर्तते इति भावः ।अम्प्रत्ययव॑दित्यतिदेशसय् प्रयोजनमाह — औतोम्शसोरिति । गाम्मन्य इति । गामात्मानं मन्यते इत्यर्थे मनेः खशि श्यन्, सुपो लुक्, गोशप्दादम्,अम्प्रत्ययव॑दित्यस्य प्रयोजनान्तरमाह — वाऽम्शसोरिति । स्त्रियम्मन्य इति । स्त्रियमात्मानं मन्यते इत्यर्थे मनेः खशि श्यन् । सुपो लुक् । स्त्रीशब्दात् 'वाऽम्शसोः' इति इयङ्विकल्पः । अत्र यकारादकारस्य श्रवणार्थमम्विधिः । मुमि तु अकारो न श्रुयेत । स्तरीम्मन्य इति । इयङभावपक्षेअमि पूर्वः॑ ।अम्प्रत्ययव॑दित्यस्य प्रयोजनान्तरमाह — नृ - नरम्मन्य इति ।नृ॑इत्यविभक्तिकम्, उदाहरणे नृशब्दस्य समावेशसूचनार्थम् । नरमात्मानं मन्यते इत्यर्थे मनेः खश्, श्यन्, सुपो लुक्, नृशब्दादम् ।अम्प्रत्ययव॑दित्यतिदेशात्ऋतोऽङी॑ति गुणः । अत्राऽपि रेफादकारश्रवणार्थोऽम्विदिः । मुमि त्वकारो न श्रूयेत ।अम्प्रत्यव॑दित्यस्य प्रोजनान्तरमाह — भुवम्मन्य इति । भुवमात्मानं मन्यते इत्यर्थे मनेः खश्, श्यन्, सुपो लुक् । भूशब्दादम्,अम्प्रत्ययव॑दित्यतिदेशात् 'अचि श्नुधातु' इत्युवङ् । अतिदेशाऽभावे तु उवङ् न स्यात्, तस्याऽजादिप्रत्यये विधानात् । श्रिमन्यमिति । मनेः खश् । श्यन् । अत्र मननक्रियां प्रति कुलत्वेन रूपेण कुलं कर्तृ, तस्यैव कुलस्य अध्यारोपतिश्रीत्वेन रूपेण कर्मत्वं चेति स्थितिः । एवं च श्रीशब्दस्य नित्यस्त्रीलिङ्गस्यापि कुले लक्षणया वृत्तेर्नपुंसकत्वम् । यत्र हि प्रातिपदिकस्यैव लक्षणा प्रसिद्धा तत्र पर्वलिङ्गत्यागः । यथा प्रकृते श्रीशब्दः । यत्र तु पदस्य लक्षणा, न तत्र पूर्वलिङ्गत्यागः, यथागङ्गायां घोष॑इत्यादावितिपुंयोगादाख्याया॑मिति सूत्रे , प्रकृतसूत्रे च भाष्यैयटयोर्मर्यादा स्थिता । एवं चकालिम्मन्यं कुल॑मित्यत्र कालीशब्दस्य न स्त्रीलिङ्गपरित्यागः, प्रयोगानुसारेण तत्र पदलक्षणाया एवाभ्युपगमात् ।श्रिमन्यं कुल॑मित्यत्र तु प्रयोगाऽनुसाराच्श्रीशब्दस्य प्रातिपदिकस्यैव लक्षणेति पूर्वलिङ्गपरित्यागान्नपुंसकलिङ्गत्वमेवाश्रीयते । ततश्च श्रीशब्दस्याऽत्र नपुंसकत्वात्खित्यनव्ययस्ये॑ति बहिरङ्गं ह्रस्वं बाधित्वाह्रस्वो नपुंसके प्रातिपदिकस्ये॑ति ह्रस्व एव न्याय्यः । मुमपवादे 'इच एकाचः' इत्यमि कृते तस्यस्वमोर्नपुंसका॑दित लुक् । तथा चश्रिमन्यं कुल॑मिति सिद्धम् । नच गाम्मन्य इत्यादावपिसुपो धातुप्रातिपदिकयो॑रिति लुक् स्यादिति वाच्यम्, 'इच एकाचः' इत्यमः 'सुपो धातु' इति लुगपवादत्वात् ।स्वमोर्नपुंसका॑दिति लुकस्तु नायमम्विधिर्बाधकः, मध्येऽपवादन्यायादिति प्रकृतसूत्रे भाष्यकैयटयोः स्पष्टम् । तदाह — भाष्यकारेत्यादि । 'ह्रस्वो नपुंसके' इत्यनेने॑ति शेषः । मुममोरभावश्चेति । मुमपवादस्य अमःस्वमोर्नपुंसका॑दिति लुकि सति तयोः प्रयोगाऽभावः फलतीत्यर्थः ।
index: 6.3.68 sutra: इच एकाचोऽम्प्रत्ययवच्च
अमागमो भवतीति । कथमस्यागमत्वम् मित्वात् । यद्येवम्, मकार इत्संज्ञकः प्रयोगे श्रवणं न प्राप्नोति - श्रियम्मन्यः, भ्रुवम्मन्य इति नैवास्य मकारस्य श्रवणम्, किं तर्हि मुमः । ननु च नाप्राप्ते मुम्यारभ्यमाणोऽयमागमस्तं बाधेत न बाधेत उक्तं तत्र -अन्तग्रहणं कृताजन्तकार्यप्रतिपत्यर्थमिति, तेनास्मिन्नपि प्रकृते भविष्यति । वयन्तु ब्रूमः - नेवायमित्संज्ञको मकारः, अम्प्रत्ययवद्भावेन न विभक्तौ तुस्माः इति एप्रतिषधात् । यद्यवम्, आदेशः प्राप्नोति अम्प्रत्ययवद्भावात्परो भविष्यति । आगमव्यपदेशास्तु यौगिकः समीप आगच्छतीति, यथा न य्वाभ्यां पदान्ताभ्याम् इत्यत्रैचः । द्वितीयोऽपि वा मकारः संयोगान्तलोपेन लुप्तनिर्दिष्टो द्रष्टव्यः । यद्यत्र प्रत्ययवच्चेत्येतावदुच्येत गाम्मन्य इत्यत्र औतोऽम्शसोः इत्याकारो न स्यात्, शसा सहचरितस्यामस्तत्र ग्रहणात् । इह च स्त्रीम्मन्य इति अमि पूर्वः इति पूर्वरुपं न स्यात् प्रथमयोः इति तत्रानुवृतेः । इह च नरम्मन्य इति ऋतो ङिसर्वनामस्थानयोः इति गुणो न स्यात् सामान्यतिदेशे विशेषानतिदेशात् । यत्र हि सामान्यशब्देनातिदेशस्तत्र विषेषाणामशब्दार्थत्वात्सामान्यनिबन्धनमेव कार्यं प्राप्यते यथा - ब्राह्मणवदस्मिन् क्षत्रिये वर्तितव्यमिति ब्राह्मणमात्रप्रयुक्तं कार्यमतिदिश्यते, न माठरादिर्विशेषप्रयुक्तम्, तद्वदत्रापि प्रत्ययमात्रप्रयुक्तयोरियणुवङेरेवातिदेशः स्यत्, न त्वाकारदेरिति मत्वाऽऽह - अम् प्रत्ययवच्चेचि । एतदेव विवृणोति - द्वितीयैकवचनवच्चेति । ननु चात्रैकमम्ग्रहणं यदि तेनागमो निर्दिष्टः प्रत्ययो न विशेषितः स्यात् अथ प्रत्ययो विशेष्यते, आगमो न निर्दिष्टः स्यात् इत्यत आह - अमिति हीत्यादि । नन्वत्रापि पक्षे अम्प्रत्ययप्रयुक्तयोरात्वपूर्वत्वयोरेवातिदेशः स्यात्, न गुणस्य सर्वनामस्थानमात्रनिमितस्य, नतरामियणुवङेः प्रत्ययमात्रनिमितयोः स्यादेतदेवम्, यद्यमित्येतदाहत्य विहितं तस्यैवातिदेशः स्यात् । वयं तु - आमि यद् दृष्ट्ंअ सामान्यनिबन्धनं विशेषणबन्धनं वा तत्सर्वमतिदिशामः । त्वङ्मन्य इति । अत्र त्वचंमन्य इति प्राप्नोति, येषामेको मकारः प्रत्ययवद्भावात्त्उ परोऽयमिति पक्षः । येषामपि द्वितीयस्तेषामचः परोऽम् प्राप्नोति, येषां त्वित्संज्ञको मकारस्तेषामक्षापि को दोष इति चिन्त्यम् । नन्वज्ग्रहणानुवृतेरेवात्र न भविष्यति, उपसमस्तस्य पृथगनुवृत्तिर्दुर्ज्ञानेति मन्यते । लेखाभ्रुमन्य इति । पूर्ववद् ह्रस्वत्वं मुमागमश्च । अथहेत्यादि । भाष्ये अथेह कथमित्यारभ्यश्रिमन्यमितिभवितव्यमिति स्थितम्, स्थापितमित्यर्थः । तेन भिन्नकर्तृकत्वं नाशङ्कनीयम् । ननु च स्त्रीलिङ्गः श्रीशब्दस्तत्कथं श्रिमन्यमिति रुपमित्याशङ्क्योपपादयति - तच्चेदमिति । अर्थान्तरे हि वर्तमानाः शब्दाः केचित्स्वलिङ्गत्यागेन वर्तन्ते, यथा - यष्ट।लदयः शब्दाः पुंयोगात्स्त्रियां वर्तमानाः यष्टी, प्रचरी, गणिकेति । केचितु स्वलिङ्गोपादानेन यष्टीः पुरुषान् प्रवेशयेति । तत्रेह प्रथमा विधा भाष्यकारस्याभिप्रेता, तेन स्वमोर्नपुंसकात् इत्यमोलुकि कृते श्रिमन्यमिति भवति । यद्येवम्, सुपो धातुप्रातिपदिकयोः इत्यस्यापि लुकोऽतिदेशः प्राप्नोति, तस्याप्यमि दृष्टत्वात्, अथाम्विधानसामर्थ्यदस्य लुको नातिदेशः, खमोर्नपुंसकात् तित्यस्यापि न स्यात् उच्यते, येन नाप्राप्ते इति वा, मध्येऽपवादाः इति वा सुपो धातुप्रतिपदिकयोः इत्यस्यैव लुको विधानसामर्थ्याद्वाधः न स्वमोर्नपुंसकात् इत्यस्य । एवमप्येकपदाश्रयत्वाल्लुगन्तरङ्गो विपर्ययादागमो बहिरङ्ग तैत्यन्तरङ्गे लुकि कर्तव्ये बहिरङ्गोऽमागमो नास्त्येव, तत्कुतो लुक् नात्र बहिरङ्गपरिभाषा शख्याऽऽश्रयितुम् । अनुस्वारोऽपि हि न स्याद् - अरुन्तुदः, द्विषन्तप इति । तस्मादत्र लुकि सति श्रिमन्यमिति भवति, येषां त्वमो मकार इत्संज्ञकः प्रयोगे तु मुमः श्रवणम्, तेषामकारमात्रस्य लुकि सति मुमः शेवणप्रसङ्गः ॥